________________
३१६
संगीतरनाकरः कुट्टितः प्रथमं पादः पुरः पश्चान्निवेशितः । मध्ये निवेशितश्चायं पुनस्तत्रैव कुट्टितः ॥ मध्यस्थापनकुट्टाख्या चारी चान्वर्थलक्षणा ।
इति मध्यस्थापनकुटा (१५) कुट्टितश्चरणः पूर्व स्वपार्श्वेऽप्यन्यपार्श्वके । निक्षिप्तश्चापि मध्ये च तत्रापि च निकुट्टितः ॥ सा तिरश्वीनकुट्टाख्या प्रोक्ता सार्थप्रचारिका ।
इति तिरधीनकुहिता (१६) कुट्टितश्चरणः पृष्ठे लुठितोऽङ्गुलिपृष्ठतः । पुनश्च कुट्टितस्थाने सा पृष्ठलुठिताभिधा ॥
इति पृष्ठलुठिता (१५) पुरस्ताच कृता सैव पुरस्ताल्लुठिताभिधा ।
इति पुरस्ताल्लुठिता (१८) त्रिकोणचारी या चारी त्वनुलोमविलोमगा । स्वस्थाने स्थापितपदा ततस्तत्रापि कुट्टिता ॥ सानुलोमविलोमाख्या चारीयं परिकीर्तिता ।
इत्यनुलोमविलोमा (१९) विपरीतप्रचारा सा प्रतिलोमानुलोमिका ।
इति प्रतिलोमानुलोमिका (२०) निकुट्टितौ समौ पादौ स्थितौ चाङ्गुलिपृष्ठयोः । समपादनिकुट्टा च कीर्तितान्वर्थलक्षणा ॥
इति समपादनिकुट्टिता (२१)
Scanned by Gitarth Ganga Research Institute