________________
३१५
सप्तमो नर्तनाध्यायः पादद्वयकृता सैव क्रमपादनिकुट्टिता ।
इति क्रमपादनिकुट्टिता (७) कुट्टितोऽङ्गुलिपृष्ठे च स्थितः पादोऽपरः स्थितः । स्वस्तिकस्थापितः पूर्वः स्वपार्श्वे स्थलकुट्टितः ।। एवं पादद्वयेनापि सा पार्श्वद्वयचारिणी ।
इति पार्श्वद्वयचारिणी (6) कुट्टितश्वरणः पूर्व लुठितोऽङ्गुलिपृष्ठतः । पश्चान्निकुट्टितस्थाने भवेड्डमरुकुट्टिता ।
इति डमरुकुट्टिता (९) पादद्वयकृता सा चेडुमरुद्वयकुट्टिता ।
इति डमरुद्वयकुहिता (१०) कुट्टितश्चरणः पूर्व पुरतोऽङ्गुलिपृष्ठतः । स्थापितः कुट्टितस्थाने पुरःक्षेपनिकुट्टिता ॥
इति पुरःक्षेपनिकुहिता (११) पश्चारक्षेपाच्च सा प्रोक्ता पश्चात्क्षेपनिकुट्टिता ।
इति पश्चात्क्षेपनिकुट्टिता (१२) पार्श्वतश्च पुनः क्षेपात्पार्श्वक्षेपाख्यकुट्टिता ।
इति पार्श्वक्षेपाख्यकुठ्ठिता (१३) कुट्टितश्चरणः पूर्व पुरः पश्चान्निवेशितः । व्यश्रभावात्पुनश्चापि पुरः पश्चात्तदन्यथा ॥ कुट्टितश्च ततः स्थाने चतुष्कोणाख्यकुट्टिता ।
इति चतुष्कोणकुट्टिता (१४)
Scanned by Gitarth Ganga Research Institute