________________
संगीतरत्नाकरः एवमन्याश्च कर्तव्याश्चार्यश्चान्वर्थलक्षणाः ॥ इति चारीणामुद्देशः ।
पादशिक्षासु कर्तव्याः करव्यापारनर्तनैः । निकुठ्य च तलेनादौ पुरःपश्चान्निधीयते ॥ पादश्चाङ्गुलिपृष्ठेन स्वस्थाने चापि कुट्टितः । पुरःपश्चात्सरा नाम सान्वर्था परिकीर्तिता ॥
इति पुरःपश्चात्सरा (१) सैव पश्चात्पुरःक्षेपात्रोक्ता पश्चात्पुरःसरा ।
• इति पश्चात्पुरःसरा (२) निवेशिताभिधः पादः स्थापितोऽगुलिपृष्ठतः । निकुट्टितः पुरस्ताच्च पार्श्वे पृष्ठे निवेशितः ॥ चरणागुलिपृष्ठेन पुनः स्थाने च कुट्टितः । त्रिकोणचारी सोद्दिष्टा चारी चान्वर्थसंज्ञिका ॥
इति त्रिकोणचारी (३) कुट्टितश्च स्वपार्श्वे च स्थापितोऽङ्गुलिपृष्ठतः । पुनर्निकुट्टितस्थाने सा चैकपदकुट्टिता ।।
___ इत्येकपदकुट्टिता (४) एवं पादद्वयकृता सा पादद्वयकुट्टिता।
इति पादद्वयकुट्टिता (५) कुट्टितः प्रथमं पादः स्थितश्चाङ्गुलिपृष्ठतः । अन्यस्ततः कुट्टितश्चेत्पादस्थितिनिकुट्टिता।।
इति पादस्थितिनिट्टिता (८)
Scanned by Gitarth Ganga Research Institute