________________
सप्तमो नर्तनाध्यायः
३१३ (क०) एतासां चतुष्पश्चाशञ्चारीणां देशीत्वं भरतानुक्तत्वे सति कोहलाद्युक्तत्वाद् द्रष्टव्यम् । लोके मधुपसंज्ञकाश्चारीविशेषा देशीचारीष्वे. वान्तर्भूता मन्तव्याः । ता अप्यत्र व्याख्याने कोहलोक्ताः प्रदर्श्यन्ते । यथा
" अथ पादनिकुट्टाख्यचारीणां लक्षणं ब्रुवे । पादकुट्टनचारी तु लोके मधुपसंज्ञिका ॥ तस्याश्च बहवो भेदा दिङ्मात्रं चोच्यते मया । सव्यापसव्यचलनं पादचारीषु मोच्यते ॥ निकुट्टनं तु पादेन ताडनं स्यान्महीतले ।. उद्देशः क्रियतेऽन्वर्थश्चारीणां स्वोचितो मतः ॥ पुर:पश्चात्सरा चारी तथा पश्चात्पुरःसरा । त्रिकोणचारी पश्वाच्च तथैकपदकुट्टिता ।। पादद्वयनिकुट्टाख्या पादस्थितिनिकुट्टिता । क्रमपादनिकुट्टा च पार्श्वद्वयचरी तथा ।। चारी डमरुकुट्टाख्या डमरुद्वयकुट्टिता । पुरःक्षेपनिकुट्टा च पश्चात्क्षेपनिकुट्टिता ॥ पार्श्वक्षेपनिकुट्टा च चतुष्कोणाख्यकुट्टिता । मध्यस्थापनकुट्टा च तिरश्चीनाख्यकुट्टिता ॥ चारी च पृष्ठलुठिता पुरस्ताल्लुठिता तथा । अनुलोम विलोमा च प्रतिलोमानुलोमिका ।। समपादनिकुट्टा च चक्रकुट्टनिका ततः । मध्यचक्रा ततो मध्यलुठिता वक्त्रकुट्टिता ॥ पञ्चविंशतिसंख्याश्च कीर्तिता ह्यर्थयोगतः ।
Scanned by Gitarth Ganga Research Institute