________________ सप्तमो नर्तनाध्यायः यत्राकुञ्च्य तिरश्चीनं चरणं प्रक्षिपेन्मुहुः / तां तिर्यक्कुश्चितां चारीमाह श्रीकरणेश्वरः // 986 / / इति तिर्यक्कुञ्चिता (16) इतस्ततश्च चरणौ स्थापयेत विसंस्थुलौ / मत्तपद्यत्र तामाहुश्चारी धीरा मदालसाम् // 987 // __ इति मदालसा (15) भाकुञ्चितोऽनिरुक्षिप्योत्क्षिप्यान्येनाध्रिणा यदा / युज्यतेऽन्यस्तु संसपेत्तिर्यक्संचारिता तदा // 988 / / इति तिर्यक्संचारिता (18) उत्क्षिप्य कुश्चितौ पादौ न्यस्येदेकैकमग्रतः / यस्यां सोत्कुश्चिता चारी प्रोक्ता सोढलसूनुना / / 989 // ___ इत्युत्कुचिता (19) (सु०) तिर्यक्कुञ्चितां लक्षयति-यत्रेति / यत्र तिरश्चीनं पादमाकुञ्चप मुहुः प्रक्षिपति ; सा तिर्यक्कुचिता // 986 // इति तिर्यक्कुञ्चिता (16) (सु०) मदालसां लक्षयति-इतस्ततश्चेति / यत्र भूसंस्थितौ पादौ इतस्ततो मत्तवत् स्थापयेत् ; सा मदालसा // 987 // इति मदालसा (17) ___ (सु०) तिर्यक्संचारितां लक्षयति-यत्रेति यत्र आकुञ्चिता एकपाद: उत्क्षिप्योत्क्षिप्य अन्यपादेन युज्यते, अन्यश्च संसर्पति ; सा तिर्यकसंचारिता // 988 // इति तिर्यक्संचारिता (18) (सु०) उत्कुञ्चितां लक्षयति --उत्क्षिप्येति / यत्र कुञ्चितौ पादौ एकैकतोऽप्रतो न्यस्येत् ; सा उत्कुञ्चिता / / 989 // इत्युत्कषिता (19) Scanned by Gitarth Ganga Research Institute