________________ 302 संगीतरनाकरः उरुस्थस्वस्तिकाकारावधी संघर्षतो भुवम् / पार्धाभ्यां यत्र तामाहुरूरवेणी मनीषिणः / / 982 // इत्यूरुवेणी (12) अगुलीपृष्ठभागेन पुरतः सरतो द्रुतम् / प्रपदे यत्र सा चारी तलोवृत्ता मता सताम् / / 983 / / ___इति तलोवृत्ता (13) कुश्चिते स्वस्तिकीकृत्य वलितान्ते तले यदा / अङ्मयोरुत्प्लुत्य निपतेद्धरिणत्रासिका तदा / / 984 // इति हरिणत्रासिका (14) भृमिघृष्टया बहिर्नीतावावर्तेते शनैः क्रमात् / चरणौ यत्र तामाहुरर्धमण्डलिकां बुधाः / / 985 // ___ इत्यर्धमण्डलिका (15) (10) ऊरुवेणी लक्षयति-ऊरुस्थति / यत्र पादौ ऊरुस्वस्किमालम्ब्य पार्वाभ्यां भूमि घर्षयतः ; सा ऊरुवेणी // 982 / / इत्यूरुवेणी (12) (सु०) तलोवृत्तां लक्षयति-अगुलीति / यत्र पादाने अशुलिपृष्ठभागेन द्रुतं पुरतो गच्छत: ; सा तलोद्वत्ता // 983 // इति तलोदात्ता (13) (10) हरिणत्रासिका लक्षयति-कुश्चिते इति / यत्र कुचिते स्वस्तिकीभूय वलितान्ते पादतले उत्प्लुत्य पतिता; सा हरिणत्रासिता // 984 // ___ इति हरिणत्रासिका (14) (सु०) अर्धमण्डलिकां लक्षयति-भूमीति / यत्र पादौ भूमिं घृष्ट्वा बहिनीता क्रमेण शनैरावत्यैते ; सा अर्धमण्डलिका // 985 // इस्यर्धमण्डलिका (15) Scanned by Gitarth Ganga Research Institute