________________ मनमो नर्तनाध्यायः पश्चादुसानिततलश्चरणः प्रमृतो बहिः / यस्यां परावृत्ततला शाह्नदेवेन सोदिता / / 973 // इति परावृत्ततला (2) स्थित्वा स्वस्तिकबन्धेन पार्योः प्रपदयोस्तथा / . रेचितौ चरणौ यत्र सोक्ता नूपुरविद्धका // 974 / / इति नूपुरविद्धा (3) वर्धमाने स्थितो स्थाने वामदक्षिणतो यदा / सरतो द्रुतमानेन पादौ तिर्यङ्मुखा तदा / / 975 // इति तियङ्मुखा (4) __(मु०) परावृत्ततलां लक्षयति-पश्चादिति / यत्र पश्चादुत्तानिततल: बहिः प्रसृतश्च चरणो भवति ; सा परावृत्ततला // 973 // इति परावृत्तातला (2) (सु०) नूपुरविद्धां लक्षयति-स्थित्वेति / यत्र स्वस्तिकबन्धे स्थित्वा पार्योः पादौ रेचितौ भवतः ; सा नूपुरविद्धा // 974 // इति नपुरविद्धा (3) (क०) अथ देशीचारीपु भौमीधु प्रथमोद्दिष्टायां रथचक्रायां चतुरश्रं समाश्रित्य भूलनौ चेदित्युक्तम् / अत्र चतुश्रशब्देन वक्ष्यमाणदेशीस्थानकमुच्यते / न तु वैष्णवस्थानकोक्ताङ्गसंनिवेशविशेषः / प्रसिद्धाप्रसिद्धयोः सिद्धस्यैव ग्राह्यत्वात् ; देशीत्वसंबन्धाच्च / पादयोkलमत्वेन प्रसर्पणमेव लोके निःसरणमित्युच्यते / परावृत्ततलादीनां लक्षणानि तु ग्रन्थत एव सुबोधानि / तत्र तत्रोक्तस्थानकानां लक्षणं तत्तल्लक्षणादवगन्तव्यम् / Scanned by Gitarth Ganga Research Institute