________________ 298 संगीतरनाकरः अर्धचन्द्रः करो नाटये संश्रयेत कटीतटम् / पक्षवश्चितको नृत्ते पक्षप्रद्योतकोऽथवा // 971 // चतुरश्रं समाश्रित्य भूलग्नौ चेत् सर्पतः / पुरतः पृष्ठतो वाञ्जी रथचका तदोच्यते / / 972 // इति रथचका (1) दिक्तेषु स्थानान्तरेषु सत्स्वपि कटीतटे विश्राम्यतीति वचनं प्राचुर्याभिप्रायेणेति मन्तव्यम् / / 970 // (क०) तत्र कट्याश्रयणे नाट्यनृत्तयोर्व्यवस्थया हस्तनियममाहअर्धचन्द्र इत्यादि / एतासामपि मार्गत्यं / ट्यवेदोक्तत्वेनेति पूर्वोक्तमनुसंधेयम् // 971 // इति द्वात्रिंशधारीलक्षणम / (सु०) हस्ताभिनयचार्याणां गुणप्रधानभावमाह-प्रधानमिति / यत्र हस्तो वा पादो वा यः प्रधानं भवति स प्रथमः / अन्यस्तदनुगो भवति / उभयोः साम्ये समकालता। यतश्चरणः, ततः करः, यतः करः, ततस्त्रिकं भवति / अङ्गोपाङ्गानि पादानुचराणीत्याहुः / यथा पादः चार्यो चारं चारं भूमि भजते, तथा हस्तः कारं कारं फटीप्रदेशे विश्रान्तो भवति / नाटये अर्धचन्द्रहस्त: कटीतटगतो भवति / नृत्ते पक्षवञ्चितको वा, पक्षप्रद्योतको वा भवति // 966-971 // इति द्वात्रिंशचारीलमणम। (सु०) अथ देशीचारी लक्षयति-चतुरश्रमिति / यत्र चतुरश्रमासाद्य भूलग्नौ पादौ पृष्ठतो वा प्रसर्पत: ; सा रथचक्रा // 972 // ___ इति रथचका (1) Scanned by Gitarth Ganga Research Institute