________________ सप्तमो नर्तनाध्यायः 297 प्रधानं यो यदा यत्र हस्तः पादोऽथवा भवेत् / सोऽग्रे तदनुगोऽन्यः स्यात्साम्ये तु समकालता // 967 // यतः पादस्ततो इस्तो यतो हस्तस्ततस्त्रिकः। चरणानुचराण्याहुरङ्गोपाङ्गानि सूरयः / / 968 / / एवं चारीप्रधानत्वे स्यादङ्गविनियोजनम् / प्राधान्ये हस्तकानां तु हस्तमङ्गान्युपासते // 969 / / चारं चारं यथा चार्या चरणः श्रयते महीम् / कारं कारं करस्तद्वद्विश्राम्यति कटीतटे / / 970 / / (क०) हस्ताभिनयचार्योर्गुणप्रधानभावं विषयव्यवस्थया दर्शयतिप्रधानमित्यादि / यत्र नाटये वा नृते वा, यदा नाटयेऽर्थवशाद्गत्यनुकरणावसरे, नृत्ते वा प्रयोगवशाद्धस्तक्रियावसरे, यो हस्तः पादो वा प्रधानं भवेत् / सोऽग्र इति / स हस्तः पादो वा अग्रे प्रथमं प्रयोक्तव्य इत्यर्थः / अन्यः; प्रथमप्रयुक्तादन्यः, तदनुगः; तस्य प्रथमप्रयुक्तस्यानुगोऽनुसारी भवेत् / साम्ये विति। नाटये वा नृते वा हस्तपादयोः समप्राधान्ये विषयभूत इत्यर्थः / समकालता; हस्तपादयोरेककालता; हस्तपादयोगेककालप्रयोज्यत्वमित्यर्थः // 967 // (क०) हस्तपादयोरेकतरप्राधान्ये तदितरेषामङ्गभूतानां प्रवृत्तिनियममाह-यतः पाद इत्यादि // 968, 969 // (क०) करक्षेत्राणां त्रयोदशानामुक्तत्वेऽपि तेषु कट्या एव प्राधान्यं दर्शयितुं सदृष्टान्तमाह-चारं चारमिति / चरणश्चार्यो चारं चारं चरित्वा चरित्वा यथा महीं श्रयते / तत्र स्थानान्तरस्यानुक्तत्वादसंभवाचेति भावः / तद्वत्तथा करः, कारं कारं, कृत्वा कृत्वा कटीतटे विश्राम्यतीति / पार्श्वद्वया 38 Scanned by Gitarth Ganga Research Institute