________________ 295 सप्तमो नर्तनाध्यायः अन्योरुमूलक्षेत्रान्तं पादमुक्षिप्य कुश्चितम् // 959 // नितम्बाभिमुखी पाणिः कुर्याज्जानु स्वपार्श्वगम् / यत्रोत्तानं पादतलं कटीजानुविवर्तनात् / / 960 // भुजङ्गत्रासिता सा स्याद् भुङ्गवाससूचिका / इति भुजङ्गत्रासिता (13) तालत्रयान्तरोक्षिप्तं कुश्चितं पादमानयेत् // 961 // पार्थान्तरं ततो जवां स्वस्तिकीकृत्य पातयेत् / धरण्यां पाणिमागेन यत्राक्षिप्ताममू विदुः // 962 // इन्याक्षिप्ता (14) विश्लिष्टजङ्घयोः कृत्वा स्वस्तिकं तस्य कुञ्चितः। पादः प्रसारितो वक्रः स्वपार्श्वस्थोऽथ पात्यते // 963 // पार्ष्या पाष्र्ण्यन्तरक्षेत्रे यत्राविद्धा भवत्यसौ। इत्याविद्धा (15) ___ (सु०) भुजङ्गत्रासितां लक्षयति-अन्योरुमूलेति / यत्र अन्योरुमूलक्षेत्रपर्यन्तं कुश्चितं पादमुत्क्षिप्य, पाणिः नितम्बाभिमुखी, जानु स्वपार्श्वगतं कटीजानुविवर्तनेन पादतलमुत्तानं च क्रियते ; सा भुजङ्गत्रासिता // // -959-560- // इति भुजावासिता (13) (सु०) आक्षिप्तां लक्षयति-तालत्रयेति / यत्र तालत्रयान्तरमुत्क्षिप्तः कुञ्चितः पादः पार्थान्तरमानीयते, ततो जयां स्वस्तिकीकृत्य, पाणिभागेन भूमौ पात्यते ; सा आक्षिप्ता // -961, 962 // इत्याक्षिप्ता (14) (सु०) आविद्धां लक्षयति-विश्लिष्टेति / यत्र विलिष्टजङ्घयोः स्वस्तिकं Scanned by Gitarth Ganga Research Institute