________________ 294 संगीतरत्नाकरः नूपुरश्चरणेऽन्यस्य पाष्णिदेशे विधाय चेत् // 955 // स्वदेहक्षेत्राभिमुखं जान्वग्रत्वेन वेगतः / अग्रे प्रसार्यते चारी दण्डपादा तदोदिता / / 956 // इति दण्डपादा (10) पृष्ठतो वलितं स्पृष्ट्वा शिरो भ्रान्त्वा च सर्वतः / प्रसृतश्चरणो यत्र विद्युभ्रान्ता भवेदसौ // 957 // इति विद्युभ्रान्ता (11) अतिक्रान्तागतं पादं व्यश्रस्योरोविवर्तनम् / कृत्वा पादान्तरतलभ्रमेण भ्राम्यते तनुः / / 958 / / यत्र सा भ्रमरी चारी शार्ङ्गदेवेन कीर्तिता / इति भ्रमरी (12) (सु०) दण्डपादां लक्षयति-नूपुर इति / यत्र चरणे पाणिदेशे च नपुर निधाय, स्वदेहक्षेत्राभिमुखजान्वरत्वेन वेगात् प्रसारयति ; सा दण्डपादा // -995, 996 // इति दण्डपादा (10) (सु०) विद्युभ्रान्तां लक्षयति-पृष्ठत इति / यत्र पृष्टतो वलितं शिरः संस्पृश्य सर्वतों भ्रमणेन चरणः प्रसार्यते ; सा विद्युद्धान्ता // 997 // इति विद्युद्धान्ता (11) __(मु०) भ्रमरी लक्षयति-अतिक्रान्तेति / यत्र अतिक्रान्तागत पाद त्र्यश्रस्य उरोविवर्तनं कृत्वा, पादान्तरतलभ्रमणेन तनुः भ्राम्यते ; सा भ्रमरी // 958,959- / / इति भ्रमरी (12) Scanned by Gitarth Ganga Research Institute