________________ सप्तमो नर्तनाध्यायः 293 उत्क्षिप्य कुश्चितं पादं जङ्घामस्य प्रसार्य च // 951 // जान्वन्तां वोरुपर्यन्तामग्रयोगे नतं भुवि / चरणं पातयेद्यस्यां सा सूचीति निगद्यते // 952 // ___ इति सूची (7) पश्चान्नीत्वाश्चितं पादं तस्य पार्ष्या स्फिजं स्पृशेत् / तं ततोऽश्चितजथं च भूमावग्रतलेन चेत् // 953 // निपातयेत्तदा चारी मोक्ता नूपुरपादिका / इति नूपुरपादिका (8) पादं कुश्चितमुद्धत्य डोलयित्वा च पार्श्वयोः // 954 / / न्यस्येत्पार्ष्या स्वपार्थे चेड्डोलापादा तदोच्यते / इति डोलापादा (7) (सु०) सूची लक्षयति-उत्क्षिप्येति / यत्र कुञ्चितं पादमुत्क्षिप्य तजङ्घा जान्वन्तरम् ऊरुपर्यन्तां वा प्रसार्य, अग्रेण तं पादं भुवि पातयेत् ; सा सूची // -951, 952 // इति सूची (7) ___ (सु०) नूपुरपादिकां लक्षयति-पश्चादिति / यत्र अश्चितं पादं पश्वान्नीत्वा, पाया: 'स्फिरप्रदेशमुत्स्पृशति अञ्चितजङ्घ तमेव पादमयतलेन भूमौ निपातयेत् ; सा नूपुरपादिका // 953, 953- // ___ इति नूपुरपादिका (8) (सु०) डोलापादां लक्षयति-पादमिति / यत्र कुञ्चितं पादं पार्श्वयोः उद्वृत्तं डोलयित्वा पार्या पार्श्वे न्यस्येत् ; सा डोलापादा // 954, 954- // इति डोलापादा (9) "स्त्रियो स्फिचौ कटिप्रोथौ” (2.2.75) इत्यमरः / Scanned by Gitarth Ganga Research Institute