________________ 292 संगीतरनाकरः कुश्चितं पादमुत्क्षिप्योत्प्लुत्य भूमौ निपात्य तम् / अन्याश्चिताधिजयां च पश्चाद्देशे क्षिपेद्यदा / / 948 // तदा मृगप्लुता ज्ञेया सा विदूषककर्तृका / इति मृगप्लुता (4) कुश्चितोरिक्षप्तपादस्य जानुस्तनसमं यदा // 949 / / न्यस्य स्तब्धीकृतोऽन्योऽङ्घ्रिरूर्वजानुस्तदा भवेत् / इत्यूर्ध्वजानुः (5) पृष्ठप्रसारितोऽङ्घ्रिश्चेदन्योर्वभिमुखं तलम् / / 950 // कृत्वा पाणिः स्वपार्थे मान्यस्तालाता तदोदिता / इत्यलाता () (सु०) मृगप्लुतां लक्षयति-कुञ्चितमिति / यत्र कुश्चितं पादमुत्क्षिप्य, तमपि भूमौ निपात्य, अन्याञ्चितपादजङ्घा यदा पश्चाद्देशे निक्षिप्यते, तदा मृगप्लुता / सा च विदूषकेन कार्या // 948, 948- // इति मृगप्लुता (4) - (सु०) ऊर्ध्वजार्नु लक्षयति-कुञ्चितेति / यत्र कुश्चितोत्क्षिप्तजानू स्तनसमं विन्यस्य, अन्यपादः स्तब्धीक्रियते ; स ऊर्ध्वजानुः // -949, 949- // इत्यूर्ध्वजानु: (5) (सु०) अलाता लक्षयति-पृष्टेति / यत्र अधिः पृष्ठतः प्रसार्य तत्तलमन्योर्वभिमुखं विधाय पाणिः स्वपार्श्वभूमि न्यस्यते ; सा अलाता // // -950, 950- // इत्यलाता (6) Scanned by Gitarth Ganga Research Institute