________________ 290 संगीतरनाकरः अनादिवेदमूलेन नाव्यवेदेन कीर्तिताः / इति षोडश भौम्यचार्यः / अयाकाशिक्यः गुल्फक्षेत्रेऽन्यपादस्योढत्याधिं कुञ्चितं पुरः // 942 // किंचित्प्रसार्य चोक्षिप्य यथाप्रकृति लोकवत् / चतुस्तालाद्यन्तरेण ततोऽग्रेण निपातयेत् // 943 / / यत्र चारीमतिकान्तां निःशङ्कस्तामकीर्तयत् / इत्यतिकान्ता (1) नियुद्धं मुष्टियुद्धम् / अङ्गहार इत्यनेन नृत्तं गृह्यते। नाट्ये चेत्यत्र चकारेण नृत्यमपि गृह्यत इत्यवगन्तव्यम् / नियुद्धादिषु यथोचितं भौम्यश्चार्य: प्रयोक्तव्या इत्यर्थः / एतासामनादित्वं दर्शयति-अनादिवेमूलेनेति / अनादयो वेदा ऋग्वेदादयश्चत्वारः // .941, 941- // ____ इति षोडश भौम्यश्चार्यः / (सु०) भौमचारीणां विनियोगमाह--नियुद्ध इति / अनादिवेदमूलनाव्यनिगमप्रतिपादिताः, नियुद्धे ; मुष्टियुद्धे, अङ्गहारेषु नाटये च प्रयोज्या एताश्चार्यः // -941, 941 // ___ इति षोडश भौम्यश्चार्यः। (क०) अथाकाशिकीनां लक्षणानि ग्रन्थत एव सुबोधानि // -942-965- // ___ इति षोडश आकाशिक्यश्चार्यः / (सु०) अयाकाशिकी लक्षयति-अथाकाशिक्य इति / तत्रातिक्रान्तां Scanned by Gitarth Ganga Research Institute