________________ सप्तमो नर्तनाध्यायः 289 मुष्टिवक्षसि हस्तोऽन्यो यथाशोभं प्रवर्तते // 938 // अधिक्रिया प्रधानं स्यादितिकर्तव्यतेतरा / इति जनिता (15) पाणिः पादस्य चेदग्रतलसंचरसंज्ञितः // 939 // अन्याङ्क्रिपृष्ठाभिमुखी विपर्यासोऽथवा भवेत् / अभ्यन्यजङ्घ वलिता जङ्घा चेन्नतजानुका // 940 // ऊरूद्वत्ता तदा चारी लज्जादौ नियुज्यते / ___ इत्यूरूवृत्ता (16) नियुद्धे चाङ्गहारेषु नाटये चैताः प्रतिष्ठिताः / / 941 // वक्षसि मुष्टीभूतो हस्त: यथाशोभं प्रवर्तते ; सा जनिता / अत्र इतरा इतिकर्तव्यता अधिक्रिया प्रधानं स्यात् // 938, 938- // इति अनिता (15) (क०) जनितायां 'मुष्टिर्वक्षस्थः (श्लो० 726)' इत्युक्तम् , तल्लक्षणत्वेन न ग्राह्यमित्याह-अघ्रिक्रियेति / अन्यथा चारीकरणयोः सांकर्य स्यादिति भावः / एवमन्यत्रापि चारीषु करव्यापारवचने द्रष्टव्यम् // -939, 940. // __(सु०) ऊरूवृत्तां लक्षयति-पाणिरिति / यत्र अग्रतलसंचरपादस्य पाणिः अन्यपादपृष्ठाभिमुखी भवति, तद्वयत्यासो वा भवति / नतजानुका एका जङ्घा अन्यजङ्घाभिमुखं वलिता भवति / सा ऊरूवृत्ता भवति / एषा ईर्ष्यालज्जादौ प्रयुज्यते // -939, 940- // ___ इत्यूरूवृत्ता (16) (क०) भौमचारीणां साधारणविनियोगमाह-नियुद्धे चेत्यादि / 37 Scanned by Gitarth Ganga Research Institute