________________
२८८
संगीतरत्नाकर:
निषण्णोरुः समो वामो दक्षिणोऽङ्घ्रिः प्रसारितः । पञ्चतालान्तरं तिर्यग्यस्यां सा स्पन्दिता मता ।। ९३५ ।। इति स्पषन्दिता ( १२ )
अङ्घ्रिचारविपर्यासात्सैवावस्पन्दिता मता ।
इत्यवस्पन्दिता (१३)
ऊरुद्वयस्य वलनं जङ्घास्वस्तिकसंयुतम् ।। ९३६ ॥ भङ्क्त्वा वा स्वस्तिकं पादतलाग्रे मण्डलभ्रमम् | कृत्वा पार्श्व गते स्वं स्वं यत्र बद्धेति सा मता ।। ९३७ ॥ इति बद्धा (१४)
चारी सा जनिता यस्यां पादोऽग्रतलसंचरः ।
(सु०) स्पन्दितं लक्षयति-निषण्ण इति । यत्र निषण्णोरुः, वामपादः समः, दक्षिणपादः पञ्चतालान्तरं तिर्यक् प्रसारितो भवति ; सा स्पन्दिता ॥ ९३५ ॥
इति स्पन्दिता ( १२ )
(सु०) भवस्पन्दितां लक्षयति - अङ्घ्रीति । यत्र अङ्घ्रिचारविमर्यासात् ; पादचारव्यत्यासात्; सेव ; स्पन्दितैव अवस्स्पन्दिता भवति ॥ ९३५ ॥ इत्यवस्पन्दिता (१३)
(सु०) बद्धां लक्षयति – ऊरुद्वयस्येति । यत्र ऊरुद्वयस्य वलनम् ; प्रत्येकं जङ्घा स्वस्तिकसंयुतं वा कृत्वा, पादतलेन अग्रे मण्डलभ्रमं विधाय स्वस्वपार्श्व गच्छतः ; सा बद्धा ॥ -९३६, ९३७ ॥
इति बद्धा (१४)
(सु० ) जनितां लक्षयति - चारीति । यत्र पादः अप्रतलसंचरो भवति ;
Scanned by Gitarth Ganga Research Institute