________________
सप्तमो नर्तनाध्यायः
भूमिश्लिष्टाखिलतलौ जङ्घास्वस्तिकसंयुतौ । भयौ यदा पादौ घूर्णन्तौ वोपसर्पतः ।। ९३० ॥ यद्वापसर्पतः सा स्यान्मत्तल्ली तरुणे मदे । इति मत्री (९)
२८७
कनिष्ठाङ्गुलिभागेनाङ्गुष्ठभागेन च क्रमात् ।। ९३१ ॥ रेचकस्यानुकारेण शनैरङ्घ्रिर्गतागतम् । कुरुते यत्र सा चारी बुधैरुत्स्पन्दितोदिता ।। ९३२ ॥ औदासीन्याधश्च्युतिस्तु स्पन्द इत्यभिधीयते । रेचितं नृत्तहस्तं च केचिदत्र प्रचक्षते ॥ ९३३ ॥ इत्यु स्पन्दिता (१०)
समाङ्घ्ररग्रपृष्ठाभ्यामन्यो ऽग्रतलसंचरः । निघृष्टश्चरणो यत्र क्रमात्तामडितां विदुः ।। ९३४ ॥
इयता ( ११ )
( सु० ) मत्तलीं लक्षयति - भूमीति । यत्र भूमिश्लिष्टाखिलतलौ, जङ्घा स्वस्तिकसंयुतौ, यदा पादौ अर्धत्र्यश्रौ, घूर्णन्तौ वा उपसर्पतः, यद्वा अपसर्पतः ; सा मत्तली; एषा तरुणे मदे प्रयोज्या || ९३०, ९३० - ॥
इति मतल्ली ( ९ )
(सु०) उत्स्पन्दितां लक्षयति - कनिष्ठेति । यत्र कनिष्ठाङ्गुलिभागेन अङ्गुष्ठभागेन च रेचकानुसारेण पादः क्रमात् शनैः गतागतं कुरुते, सा 'उत्स्पन्दिता । औदासीन्येन अधश्च्युतिः स्पन्दः । अत्र केचिदाचार्या रेचित नृत्तहस्तमपि भणन्ति ॥ -९३१-९३३ ॥
इत्युत्स्पन्दिता (१०)
(सु० ) अडितां लक्षयति - समेति । यत्र समपादस्य अग्रपृष्ठाभ्याम् अन्य: अग्रतलसंचरः पादः निघृष्यते ; सा अडिता ॥ ९३४ ॥
इत्यविता] ( ११ )
, यथाः प्रत्यावर्तनरूपस्पन्दितकृत् तत्तुल्यत्वात् उत्स्पन्दितेत्यभिनवगुप्तपादाः ।
Scanned by Gitarth Ganga Research Institute