________________
सप्तमो नर्तनाध्यायः उद्धृत्य समपादायाः पादौ यदि तलाग्रतः । निकुट्टयेतां धरणीमुच्यते विच्यवा तदा ॥ ९२२ ॥
इति विच्यवा (४) दक्षिणा ः पाणिंदेशे वामः पादो निधीयते । दक्षिणस्त्वपमृत्य स्वे पार्षे त्र्यश्रतया स्थितः ॥ ९२३ ।। सार्धतालान्तरत्वेन दक्षिणोऽप्येवमेव चेत् । वामपाष्णो स च व्यश्रो भवेदध्यर्धिका तदा ।। ९२४ ॥
इत्यध्यर्धिका (५) तालमात्रं पुरः कृत्वा द्वितालं पृष्ठतो गते । दक्षिणेऽङ्घौ समं पादौ किंचिदुप्लुतिपूर्वकम् ।। ९२५ ॥ उपमृत्यापसपैतामपमृत्योपसर्पतः । यत्र सत्रासगत्यादौ सैषा चाषगतिर्मता ॥ ९२६ ॥
इति चाषगतिः (6) (सु०) विच्यवां लक्षयति-उद्धृत्येति । यत्र समपादायां पादा उद्धृत्य तलाग्रेण भूमिनिकुव्यते ; सा विच्यवा भवति । निकुट्टनं पूर्वमुक्तम् ॥ ९२२ ॥
इति विच्यवा (४) (सु०) अध्यधिकां लक्षतति-दक्षिणा रिति । दक्षिणचरणस्य पाणिप्रदेशे यदा वामः पादो विन्यस्यते । ततो दक्षिणस्तु त्र्यश्रः सन् स्वापार्श्व अपसृत्य वर्तते, दक्षिणोऽपि सार्धतालान्तरत्वेन, एवमेव वामपाणिदेशे स्थितो भवति, स च त्र्यश्रो भवति ; सा अध्यर्धिका भवति ॥ ९२३, ९२४ ॥
इत्यध्यर्धिका (५) (सु०) चाषगति लक्षयति-तालमात्रमिति । सालप्रमाणलक्षणं स्थान
Scanned by Gitarth Ganga Research Institute