________________
२८४
संगीतरत्नाकरः यत्र धृत्वा पूर्वकायं पादोऽग्रतलसंचरः ॥ ९२० ॥ प्रसार्योद्वाहितमुरः शकटास्या तदा भवेत् । आस्यं क्षेप्यं हि शकटं चारीमेनामुपाश्रितैः ॥ ९२१ ।।
इति शकटास्या (३) ।
तथेतर इति । इतरः स्थितः पादः । तथेति । अग्रतलसंचरो भूत्वेत्यर्थः । विश्लिष्य स्वस्तिकं कृत्वा ; पार्श्व नीत इति । चरणान्तरामुल्यप्रभागेन स्वकीयं पार्श्व नीतश्चेत् ; तदा स्थितावर्ता नाम चारी भवेत् ।। ॥ ९१९, ९१९- ॥
इति स्थितावर्ता (२)
___(सु०) स्थितावर्ती लक्षयति-चरणेति । यत्र चरणान्तरपार्श्व भ्रान्त्वा, एकः पादः अग्रतलसञ्चारी भूय, अन्तर्जानुः स्वस्तिकत्वमाप्नोति । इतरस्तथैव विश्लिष्य स्वपार्श्व नीयते, सा स्थितावर्ता चारी भवति ।। ९१९, ९१९- ॥
इति स्थितावर्ता (२)
(क०) शकटास्यायाम्-आस्यं क्षेप्यमिति। क्षेप्यमित्यास्यमित्यस्य प्रतिपदम् । अनेनास्या अन्वर्थता दर्शिता भवति । एवं सर्वत्र चारीणां प्रायेणान्वर्थता द्रष्टव्या ॥ -९२०-९२७ ॥
इति शकटास्या (३)
(सु०) शकटास्यां लक्षयति--यदेति | यदा पूर्वकायं यत्नात् धृत्वा, उद्वाहितमुरः प्रसार्य, अग्रतलसंचरः क्रियते, तदा शकटास्या भवति । ॥ -९२०, ९२१ ॥
इति शकटास्या (३)
Scanned by Gitarth Ganga Research Institute