________________
सप्तमो नर्तनाध्यायः
चरणान्तरपार्श्व चेद्रत्वाग्रतलसंचरः ।
अन्तर्जानुः स्वस्तिकत्वं प्राप्तः पादस्तथेतरः ।। ९१९ ॥ विश्लिष्य पार्श्व स्वनीतः स्थितावर्ता तदोच्यते ।
इति स्थितावर्ता (२)
२८३
द्वादशाङ्गुलात्मकः । यथोक्तंवितस्तिर्द्वादशाङ्गुलः " ( नामलिङ्गानुशासनम् २-६-८४) इति । तेन समपादस्थानकेन यदा स्थितो भवति, तदा समपादा नाम चार्युदिता । अत्र स्थित इति पुंलिङ्ग निर्देशेन नर्तकपरत्वे नर्तक्या अप्युपलक्षणं द्रष्टव्यम् । अत्र कृत्वा स्थित इति क्रियाद्वयश्रवणात्पूर्वे पादयोर्वैरन्तर्य क्रियानन्तरं समपादस्थान स्थितिक्रियेति पौर्वापर्य द्रष्टव्यम् । प्रचारेत्यादि । समपादाया गतिरूपताभावेऽपि प्रचारयोग्यतामात्रात्प्रचारस्य गतेर्योग्यतामात्राच्चारीत्युपचर्यत इत्यर्थः । वस्तुतस्तु, स्थाने; स्थानकेऽप्यसौ समपादा मता । रूपद्वयमप्यस्यां संभवतीत्यर्थः ॥ ९१७, ९१८ ॥
इति समपादा (१)
(सु०) तासां प्रत्येकं लक्षणानि वक्तुमुपक्रमते - लक्षणानीति । तत्र समपादां लक्षयति- निरन्तराविति । निरन्तरौ समनखौ पादौ विधाय, यदा समपादेन स्थानेन स्थितौ चेत्, तदा समपादा भवति । सा च प्रचारयोग्यस्थितावपि भवति ॥ ९१७, ९१८ ॥
इति समपादा (१)
(क०) अथ स्थितावर्ती लक्षयति — चरणान्तरेत्यादि । अग्रतलसंचरः पादः | चरणान्तरपार्श्वम् ; अग्रतलसंचारादन्यश्चरणश्चरणान्तरम् । तस्य पार्श्व बहिर्भागप्रदेशं गत्वा, अन्तर्जानुः स्वस्तिकत्वं प्राप्तश्चेदिति । अनेन चरणान्तरस्य पाणिभागेन गमनं गम्यपार्श्वदेशावधिश्व गम्यते ।
Scanned by Gitarth Ganga Research Institute