________________
२८२
संगीतरनाकरः उद्वेष्टनमथोत्क्षेपः पृष्ठोत्क्षेपश्च सूचिका । विद्धा प्रातमुल्लोल इत्यत्रैकोनविंशतिः ।। ९१५ ।। व्योमगा उभयास्तु स्याचतुष्पञ्चाशदूचिरे । मार्गदेशीगताश्चार्यः षडशीतिरिमा मताः ॥ ९१६ ॥
इति देशीचारीप्वाकाशिक्य: । अय भौम्यः
लक्षणानि क्रमात्तासां चारीणामभिदध्महे । निरन्तरौ समनखौ पादौ कृत्वा स्थितो यदा ।। ९१७ ।। स्थानेन समपादेन समपादा तदोदिता । प्रचारयोग्यतामात्राचारी स्थानेऽप्यसौ मता ॥ ९१८ ॥
इति समपादा (१) (सु०) देशीषु आकाशिक्यश्चार्य एकोनविंशतिः । ता उद्दिशतिविद्युदिति । विद्युद्भ्रान्ता, पुरःक्षेपा, विक्षेपा, हरिणप्लुता, अपक्षेपा, डमरी, दण्डपादा, अध्रिताडिता, जङ्घालवनिका, अलाता, जवावर्ता, वेष्टनम् , उद्वेष्टनम् , उत्क्षेपः, पृष्ठोत्क्षेपः, सूचिका, विद्धा, प्रावृतम् , उल्लोल इति । उभयगता: सर्वे मिलिताः चतुष्पञ्चाशचार्यों भवन्ति । एवं मार्गदेशीगताः चार्यः षडशीतिः ॥ ९१३-९१६ ॥
इति देशीचारीष्वाकाशिक्यः (क०) तासां सर्वासां प्रत्येकं लक्षणान्यभिधातुमाह -- लक्षणानीति । तत्र समपादां लक्षयति-निरन्तरावित्यादि । यदा पादौ निरन्तरौ परस्परं श्लिष्टौ। समनखौ ; समा नखा ययोस्तौ । समाग्रपाणिभागावित्यर्थः । प्रथम तादृशौ कृत्वा, समपादेन स्थानेन स्थितश्चेत्.। पादयोर्वितस्त्यन्तरस्थित्या समपादं नाम स्थानकं वक्ष्यते । तत्र वितस्तिर्नाम देशाश्रयः परिमाणविशेषो
Scanned by Gitarth Ganga Research Institute