________________
२८१
सप्तमो नर्तनाध्यायः
२८१ अर्धमण्डलिका तिर्यक्कुञ्चिता च मदालसा । संचारितोत्कुश्चिता च स्तम्भक्रीडनिका ततः ॥ ९१० ॥ चारी लघितजङ्घाख्या स्फुरिताप्यवकुचिता । अपि संघट्टिता खुत्ता स्वस्तिका तलदर्शिनी ॥ ९११ ॥ पुराटयर्धपुराटी च सरिका स्फुरिका ततः । निकुट्टिका लताक्षेपाप्यस्खलितिका परा ॥ ९१२ ॥ समस्खलितिका भौम्यः पञ्चविंशदितीरिताः ।
इति देशीचारीषु भौम्यः । विद्युभ्रान्ता पुरःक्षेपा विक्षेपा हरिणप्लुता ।। ९१३ ।। अपक्षेपा च डमरी दण्डपादाद्धिताडिता । जङ्घालङ्घनिकालाता जङ्घावर्ता च वेष्टनम् ॥ ९१४ ॥
(सु०) देशी लक्षयति--देशीप्रसिद्धा अन्याश्चार्यः सन्ति । तत्र भौमीचार्यः पञ्चत्रिंशद्विधाः । ता उद्दिशति-रथचक्रेति । रथचक्रा, परावृत्ततला, नूपुरविद्धका, तिर्यङ्मुखा, मराला, करिहस्ता, कुलीरिका, विश्लिष्टा, कातरा, पाणिरेचिता, ऊरुताडिता, ऊरुवेणी, तलोवृत्ता, हरिणत्रासिका, अर्धमण्डलिका, तिर्यक्कुञ्चिता, मदालसा, संचारिता, उत्कुञ्चिता, स्तम्भकीडनिका, लचितजविका, स्फुरिता, अवकुञ्चिता, संघट्टिता, खुत्ता, स्वस्तिका, तलदर्शिनी, पुराटी, अर्धपुराटी, सरिका, स्फुरिका, निकुट्टिका, लताक्षेपिका, अइस्खलितिका, समस्खलितिकेति ॥ ९०८-९१२ ॥
इति देशीचारीषु भौम्यः । (क०) आकाशिकीरुद्दिशति- विद्युदभ्रान्तेत्यादि । एता अप्युभयाश्चतुष्पश्चशत् ।। ९१३-९१६ ॥
इति देशीचारीप्वाफाशिक्यः ।
Scanned by Gitarth Ganga Research Institute