________________
२८०
संगीतरत्नाकरः अतिक्रान्ताप्यपक्रान्ता पार्श्वक्रान्ता मृगप्लुता । ऊर्ध्वजानुरलाता च सूची नूपुरपादिका ॥ ९०५ ॥ डोलापादा दण्डपादा विद्युभ्रान्ता भ्रमर्यपि । भुजङ्गत्रासिताक्षिप्ता विद्धोद्वृत्तेति कीर्तिताः ॥ ९०६ ॥ भरताभिमताश्चार्यों द्वात्रिंशन्मिलितास्तु ताः । देशीप्रसिद्धाः सन्त्यन्यास्ताः संप्रत्यभिदध्महे ।। ९०७ ।।
इत्याकाशिक्याः । रथचका परावृत्ततला नूपुरविद्धका । । तिर्यङ्मुखा मराला च करिहस्ता कुलीरिका ॥ ९०८ ॥ विश्लिष्टा कातरा पाणिरेचिताप्यूरुताडिता। ऊरुवेणी तलोत्ता हरिणत्रासिका परा ।। ९०९ ॥
(क०) अथाकाशिकीरुद्दिशति-अतिक्रान्तेत्यादि । एवं द्वेधा मार्गचार्यों द्वात्रिंशत् ।। ९०५-९०७ ॥
__ इत्याकाशिक्यः । (सु०) आकाशिकीमाह-अतिक्रान्तेति । अतिक्रान्ता, अपक्रान्ता, पार्श्वक्रान्ता, मृगप्लुता, ऊर्ध्वजानुः, अलाता, सूची, नूपुरपादिका, डोलापादा, दण्डपादा, विद्युभ्रान्ता, भ्रमरी, भुजङ्गत्रासिता, आक्षिप्ता, विद्धा, उद्धृत्तेति षोडश भवन्ति । भरतामिमता: ताः सर्वाः चार्यों मिलिता द्वात्रिंशत् ॥ ॥९०५-९०७॥
इत्याकाशियः । (क०) अथ देशीचारीषु भौमीरुद्दिशति-रथचक्रेत्यादि । विद्युभ्रान्तेत्यादि । ९०८-९१२. ॥
इति देशीचारीषु भौम्यः ।।
Scanned by Gitarth Ganga Research Institute