________________
सप्तमो नर्तनाध्यायः भौमी चाकाशिकीत्येषा द्वेधा भौम्योऽत्र षोडश । समपादा स्थितावर्ता शकटास्या च विच्यवा ।। ९०२॥ अध्यर्धिका चाषगतिरेडकाक्रीडिता तथा । समोत्सरितमत्तल्ली मत्तल्ल्युत्स्पन्दिताड्डिता ॥ ९०३ ॥ स्यन्दितावस्यन्दिताख्या बद्धा च जनिताभिधा । अरूद्वत्तेत्यथ ब्रूमः षोडशाकाशिकीरिमाः ॥ ९०४ ॥
इति भैम्यः । चतुरश्रे ताले चच्चत्पुटे चतुर्भिः खण्डकैर्वा क्रमान्निष्पाद्या चार्येव व्यायामभेदो मण्डलमित्युच्यत इति योजनीयम् ।। ९००, ९०१ ॥
(सु०) तेषां स्वरूपमाह-तत्रेति । एकपादनिष्पाद्या चारी पूर्वोक्ता चार्येव चारी भवति । पादद्वयेन करणं भवति । नत् ; करणम् । नृत्तकरणात्; करचरणादिक्रियात्मकात् पृथगिति वेदितव्यम् । त्रिभिः करणैः निष्पाद्या चारी खण्डो भवति । त्रिभिः खण्डै: मण्डलं भवति ॥ ९००, ९०१ ॥
(क०) चारीविभागमाह---भौमीत्यादि । एषेत्येकपादनिप्पाचा प्रकृता चारी निर्दिश्यते । एषा चारी भौमी भूमिसंबन्धिनी, आकाशिकी आकाशसंबन्धिनी चेति द्विधा । अत्र आसु मध्ये भौम्यश्चार्यः षोडश। ता उद्दिशति-समपादेत्यादि ॥ ९०२-९०४ ॥
इति भैम्यः । (सु०) चारीविभागमाह-भौमीति । चारी द्विविधा, भौमी, आकाशिकी चेति । समपादेति । अत्र आसु मध्ये भौम्यश्चार्यः षोडश । यथा-समपादा, स्थितावर्ता, शकटास्या, विच्यवा, अध्यधिका, चाषगतिः, एडकाक्रीडिता, समोत्सरितमत्तल्ली, मत्तल्ली, उत्स्पन्दिता, अडिता, स्पन्दिता, अवस्पन्दिता, बद्धा, जनिता, ऊरूवृत्तेति ॥ ९०२-९०४ ॥
इति भौम्यः।
Scanned by Gitarth Ganga Research Institute