________________
२७८
संगीतरत्नाकरः तत्रैकपादनिष्पाद्या चारी चार्येव कीर्तिता । पादद्वयेन करणं तन्नृत्तकरणात्पृथक् ॥ ९००॥ करणैः स्यात्रिभिः खण्डो मण्डलं खण्डकैत्रिभिः ।
चतुर्भिर्वा क्रमात्ताले ज्यश्रे च चतुरश्रके ॥ ९०१॥ सेति जातिपरतयैकवचनम् । तस्य व्यायामस्य भेदानाह-चारी चेत्यादि । तद्भिदाः; व्यायमभेदाः ।। ८९८, ८९९ ।।
(सु०) चारीणामितिकर्तव्यतामाह-हस्त इति । अभिनये हस्तो वा, गत्यां पादो वा यदा ईप्सित: गत्यनुकारेण व्यापारयितुमिष्टः, तदनुगुणा चारी प्रधानम् । तत्संपत्त्युचिता; तस्य पादस्य संपत्तिः रूपनिष्पत्तिः उचिता । अङ्घ्रिजचोरुकटीकर्मचारी कार्येत्यर्थः। परा इतरा चरणादिक्रिया तदुचिता प्रथमचार्युचिता कार्या । एवं करणचरणयोः परस्परनियमेन क्रियमाणा चारी व्यायाम इत्युच्यते । तस्य भेदाश्चतुर्विधः, चारी, करणम् , खण्डः, मण्डलं चेति ॥ ८९८, ८९९ ॥
(क०) क्रमेण तेषां स्वरूपमाह-तत्रेत्यादि । एकपादनिष्पाद्या; वामेन दक्षिणेन वैकेन पादेन निवर्तयितव्या । अत्र प्राधान्यात्पादग्रहणम् । पादादिनेत्यर्थः । चार्येव ; पूर्वोक्ता चार्येव चारी कीर्तिता । व्यायामभेदत्वेनोक्ता चारीति कथिता। पादद्वयेन निप्पाद्या चार्येव करणम् । व्यायामभेदत्वेनोक्तं करणं भवति । अत्र तलपुष्पपुटादिभिः सांकर्यशङ्कां परिहरति-तन्नृत्तकरणात्पृथगिति । करपादादिक्रियात्मकं नृत्तकरणम् । केवलपादादिक्रियस्मिका चारीति भेदोऽवगन्तव्य इत्यमिप्रायः । तैस्त्रिभिः करणैनिप्पाद्या चार्येव खण्डः; व्यायामभेदत्वेनोक्तः खण्डो भवेत् । तैत्रिभिः खण्डैः व्यश्रे ताले चतुर्मिरेव खण्डकैश्चतुरश्रे ताले चेति क्रमाद्विषयव्यवस्थया विकल्पो द्रष्टव्यः । एवं च व्यश्रे ताले चाचत्पुटे त्रिभिः खण्डकैः,
Scanned by Gitarth Ganga Research Institute