________________
सप्तम नर्तनाध्यायः
हस्तो वाभिनये गत्यां चरणो यो यदेप्सितः | तत्संपच्युचिता चारी कार्या तदुचिता परा ।। ८९८ ॥ एवमन्योन्यनियमात्सैव व्यायाम उच्यते । चारी च करणं खण्डो मण्डलं चेति तद्भिदाः || ८९९ ॥
२७७
" चर
मित्यर्थः । एवमपि लौकिके कर्मण्यतिव्याप्तिः स्यादित्युक्तं विचित्रमिति । वैचित्र्यापादनं नर्तन एव क्रियत इति न कुत्राप्यतिव्याप्तिः । चारीशब्दस्य व्युत्पत्ति दर्शयति - करणे ङीपि चरेरिज्प्रत्ययान्तत इति । गतिभक्षणयोः" इत्येतस्माद्वत्यर्थे वर्तमानाच्चार्यतेऽनयेति करणार्थे विवक्षिते, ' इञ्वपादिभ्यः " इत्यौणादिक इति वार्तिकेने ञ्प्रत्यये सति ' चारि' इति स्थिते " कृदिकारादक्तिनो वा ङीष्वक्तव्यः" इति पक्षे ङीषि कृतं चारीति रुपं सिद्धम् || ८९७ ॥
66
(सु०) चारों लक्षयति - विचित्रेति । वक्ष्यमाणविशेषयुक्ता समकालकृतसंघातादिकर्मचरणादितद्विशेषहेतोः चारीत्युच्यते । चारीशब्द निष्पत्तिमाहचारी स्यादिति । चरधातोः इञ् करणे, भावे वा, " कृदिकारादक्तिन: " इति ङीष चारीशब्दनिष्पत्तिः ॥ ८९७ ॥
(क०) चारीप्रयोग इतिकर्तव्यतामाह - हस्तो वेत्यादि । अत्र वाशब्द उपमाने । अभिनये हस्तो वा हस्त इव । गत्यां गत्यनुकारे यदा यश्वरोऽञ्चितादिषु पादभेदेष्वीप्सितो व्यापारयितुमिष्टः । तत्संपच्युचिता ; तस्य चरणस्य संपत्तिः, तस्या उचिता । समादिचरणसंपादनयोग्येत्यर्थः । चारी, अङ्घ्रिजङ्घोरुकटीक्रिया कार्या कर्तव्या । परा ; तदितरा पादादिक्रिया; तदुचिता ; प्रथमचार्युचिता कार्या । द्वितीया चारी प्रथमचार्य - सारिणी कर्तव्येत्यर्थः । एवमन्योन्यनियमादिति । द्वितीयादिचार्यनुसारेण तृतीयादयश्चार्यः कृताश्चेदित्यर्थः । सैव ; चार्येव व्यायाम इत्युच्यते ।
Scanned by Gitarth Ganga Research Institute