________________
२७६
संगीतरत्नाकर:
विचित्रमङ्घ्रिजङ्घोरुफटीकर्म समं कृतम् ।
चारी स्यात्करणे ङीष चरेरिञ्प्रत्ययान्ततः ।। ८९७ ॥
I
पर्यायेण रचितं तूर्णं परितो परिभ्रमणमन्तर्बहिश्चेत्यर्थः । वामदक्षिणहस्तयोरेकस्मिन् हंस पक्षेऽन्तर्भ्रमणं कुर्वति, तदन्यो बहिभ्रमणं करोति । एवं पर्यायेण क्रियते चेत्स कररेचको भवेत् । कटीरेचकं लक्षयति - सर्वतो भ्रमणमिति । तत्तु भ्रमरीभेदेष्वनुगतं द्रष्टव्यम् । कण्ठरेचकं लक्षयति-ग्रीवाया इति ।। ८९२ - ८९६ ॥
इति रेचकलक्षणम् |
(सु० ) करादीनां रेचकं पूर्वमुक्तम्, तत्र कोऽयं रेचक इत्यपेक्षायां प्रतिज्ञाय विभागपूर्वकं रेचकं लक्षयति- रेचकानिति । पादादीनां चत्वारो रेचका भवन्ति । यथा - पादरेचकाः; कररेचकाः, कटीरेचकाः ; ग्रीवारेचका इति । तेषां क्रमेण लक्षणमाह - पाणिरिति । पाष्णिद्वयस्य अङ्गुष्ठद्वयस्य च बाह्याभ्यन्तरयोः नतोन्नतयोः संततं या गतिः स पादरेचकः । हंसपक्षतां प्राप्तयोः हस्तयोः पर्यायेण कृतं त्वरितं परितो भ्रमणं कररेचकः । कव्यां सर्वतो भ्रमणं कटीरंचकः । विरलप्रसृताङ्गुलैः तिर्यग्भ्रमणेन या ग्रीवाया विधुतभ्रान्तिः सा ग्रीवारेचकः । एते रेचका अङ्गहारानं फलमपि जनयन्ति उत्पादयन्ति । ननु ' द्रव्यसंस्कारकर्मसु परार्थत्वात्, फलश्रुतिरर्थवादः स्यात् ” इत्युक्तत्वात् कथमङ्गस्य पृथक्फलत्वम् ? दतेन्द्रियकरणन्यायेन गुणफलसंबन्धेन भविष्यति ।। ८९२-८९६ ।।
66
इति रेचलक्षणम |
(क० ) अथ चारीणां सामान्यलक्षणमाह-- विचित्रमित्यादि । विचित्रमङ्घ्रिजङ्घोरुकटीकर्म चारी स्यादित्येतावत्युच्यमाने प्रत्येकमङ्घ्रयादिकृतानां कर्मणामपि चारीत्वप्रतीतिः स्यात्; अत उक्तं समं कृतमिति । समं सह युगपदिति यावत् । एकस्मिन्कालेऽङ्घ्रयादिभिः कृत
Scanned by Gitarth Ganga Research Institute