SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः रेचकानथ वक्ष्यामश्चतुरो भरतोदितान् । पादयोः करयोः कट्या ग्रीवायाश्च भवन्ति ते ॥ ८९२ ॥ पायेगुष्ठाग्रयोरन्तर्बहिश्च सततं गतिः । नमनोन्नमनोपेता प्रोच्यते पादरेचकः ॥ ८९३ ॥ परितो भ्रमणं तूर्ण हस्तयोईसपक्षयोः । यत्पर्यायेण रचितं स भवेत्कररेचकः ॥ ८९४ ॥ विरलममृताङ्गुष्ठाङ्गुलेस्तिर्यग्भ्रमेण च । सर्वतो भ्रमणं कटयाः कटीरेचकमूचिरे ॥ ८९५ ॥ ग्रीवाया विधुतभ्रान्तिः कथ्यते कण्ठरेचकः । अङ्गहाराङ्गमप्येते जनयन्ति पृथक् फलम् ॥ ८९६ ॥ इति रेचकलक्षणम् । (सु०) पूर्वरङ्गाङ्गेश्वङ्गहाराणां प्रयोगनियममाह-मृदङ्गैरित्यादिना । ताललयानुसारिमृदङ्गगोमुखभम्भा भेरीपटहडिण्डिमपणवदर्दुरादिवाद्यैः, वर्धमानासारितेषु, पाणिकागीतिकादिषु पूर्वरङ्गाङ्गेषु, धीरैः उत्थापनादिषु च श्रेयोऽभिलाषिभिः अङ्गहाराः प्रयोक्तव्याः । प्रत्येकं करणप्रयोगेऽपि महाफलद एव ॥ -८८८-८९१ ॥ इति द्वात्रिंशदङ्गहारलक्षणम् । (क०) अङ्गहारोपयोगिनो रेचकान् लक्षयितुमाह-रेचकानथेत्यादि । तत्र पादरेचकं लक्षयति-पार्ण्यङ्गुष्ठाग्रयोरित्यादि । नमनोन्ममनोपेतान्तर्बहिश्च सततं गतिरिति । यदा पाण्योर्नमनोपेतान्तर्गतिस्तदा अङ्गुष्ठानस्य नमनोपेता अन्तर्गतिर्भवति। एवं यदा अङ्गुष्ठाग्रस्योन्नमनोपेता बहिर्गतिर्भवति, तदा पायोरुन्नमनोपेता बहिर्गतिर्भवतीति द्रष्टव्यम् । कररेचकं लक्षयति-परितो भ्रमणमित्यादि । हंसपक्षयोर्हस्तयोः Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy