________________
संगीतरत्नाकरः नूपुराख्यं विवृत्तं च निकुटानिकुट्टके ॥ ८६५ ॥ अर्धरेचितकादूर्ध्व स्याद्रेचकनिकुट्टकम् । ललिताख्यं च वैशाखरेचितं चतुरं ततः ॥ ८६६ ।। दण्डरेचितकादूर्ध्व भवेवृश्चिककुट्टितम् । निकुट्टकं पार्चपूर्व संभ्रान्तोद्वट्टिते ततः ॥ ८६७ ॥ उरोमण्डलकादूर्ध्व करिहस्तसमाह्वयम् । कटीछिन्नं सप्तदश भवेदनिकुट्टके ॥ ८६८ ॥
इत्यर्धनिकुट्टकः (९) लतावृश्चिकमादौ स्यानिकुश्चितमतः परम् । मत्तल्लि च नितम्बाख्यं करणं करिहस्तकम् ॥ ८६९ ॥
कटीछिन्नं स्मृतं षष्ठं वृश्चिकापसृते बुधैः। प्रसर्पितम् , तलसंघट्टितम् वृषभक्रीडितम्, लोलितमिति षड़िशतिकरणानि विषमभागैः दिक्चतुष्टये चतुर्धा कृत्वा परिवृत्तिप्रकारेण उरोमण्डलं कटीच्छिन्नं च यत्र क्रियते ; स रेचित: ॥ -८५८-८६४-॥
इति रेचित: (७) - (सु०) अर्धनिकुट्टकं लक्षयति-नूपुराख्यमिति । नपुरम् , विवृत्तम् , निकुट्टम् , अर्धनिकुट्टम् , अधेरेचितम् , रेचकनिकुथम् , ललितम् , वैशाखरेचितम् , चतुरम् , दण्डरेचितम् , वृश्चिककुट्टितम् , निकुट्टकम् , पार्श्वसंभ्रान्तम् , उद्घट्टितम् , उरोमण्डलम्, करिहस्तम् , कटीच्छिन्नमिति सप्तदश करणानि यत्र क्रमेण भवन्ति ; सोऽर्धनिकुट्टकः ॥ -८६५-८६८ ॥
इत्यर्धनिकुटक: (९) (सु०) वृश्चिकापसृतं लक्षयति-लतावृश्चिकमिति । लतावृश्चिकम् , निकुश्चितम् , मत्तल्लि, नितम्बम्, करिहस्तम् , कटीच्छिन्नमिति षट्करणानि
Scanned by Gitarth Ganga Research Institute