SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्याय: २६९ स्वस्तिकाद्यं रेचितं स्यादर्धरेचितकं ततः ॥ ८५८ ॥ वक्षःस्वस्तिकमुन्मत्तसंज्ञमाक्षिप्तरेचितम् । अर्धमत्तल्लिकरणं स्याद्रेचकनिकुट्टकम् ।। ८५९ ॥ भुजङ्गत्रस्तपूर्व च रेचितं नूपुरं सतः। वैशाखरेचितं कृत्वा भुजङ्गाञ्चितमाचरेत् ॥ ८६० ॥ दण्डरेचितकं चक्रमण्डलं वृश्चिकादिमम् । रेचितं वृश्चिकादूर्ध्व वित्तविनिवृत्तके ।। ८६१ ॥ विवर्तितं च गरुडप्लुतकं ललितं भवेत् । मयूराचं सर्पितं च स्खलिताख्यं प्रसर्पितम् ॥ ८६२ ।। तलसंघट्टितमथो वृषभक्रीडितं ततः । लोलितं षड्विंशतिर्या करणानामितीरिता ॥ ८६३ ॥ तां कृत्वा विषमैर्भागेश्चतुर्धा दिक्चतुष्टये । परिवृत्तिप्रकारेण प्रयुज्यान्ते समाचरेत् ।। ८६४ ॥ उरोमण्डलकं यत्र कटीछिन्नं सरेचितः। इति रेचितः (6) आक्षिप्तम् , उरोमण्डलम् , नितम्बम् , कटीच्छिन्नमिति पञ्चविंशतिकरणानि यत्र सन्ति ; तदाक्षिप्तरेचित : ॥ -८९०-८५७- ॥ इत्याक्षिप्तरेचितः (७) (सु०) रेचितं लक्षयति-स्वस्तिकायमिति । स्वस्तिकरेचितम् , अर्धरेचितम्, वक्षःस्वस्तिकम् , उन्मत्तम् , आक्षिप्तरेचितम् , अर्धमत्तल्लि, रेचकनिकुट्टकम् , भुजङ्गत्रस्तरेचितम् , नपुरम्, वैशाखरेचितम्, भुजङ्गाञ्चितम् , दण्डरेचितम्, चक्रमण्डलम्, वृश्चिकरेचितम्, विवृत्तम्, निवृत्तम् , विवर्तितम् , गरुडप्लुतम् , ललितम् , मयूरललितम् , सर्पितम् , स्खलितम् , Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy