SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ संगीतरनाकरः मत्तल्लिगण्डसूच्याख्ये लीनमप्यपविद्धकम् ॥ ८४१ ॥ तद्रुतत्वेन कर्तव्यं तलसंस्फोटितं ततः । करिहस्तं कटीछिन्नं करणानि क्रमादिति ॥ ८४२ ॥ सप्ताङ्गहारे प्रोक्तानि मत्तस्खलितसंज्ञके । ___ इति मत्तस्खलितः (२) मण्डलस्वस्तिकादूर्ध्व निवेशोन्मत्तसंज्ञके ॥ ८४३ ।। उद्घट्टिताख्यं मत्तल्लि स्यादाक्षिप्तमतः परम् । उरोमण्डलकं छिन्नं कव्यादि गतिमण्डले ॥ ८४४ ॥ इत्यष्टौ फरणानि स्युरिति निःशङ्कभाषितम् । इति गतिमण्डल: (३) अपविद्धं प्रथमतः सूचीविद्धमथो करौ ॥ ८४५ ॥ लतावृश्चिकम् , कटीच्छिन्नमिति करणसप्तकं क्रमाद्भवति ; स विष्कम्भापमृताख्योऽमहारः ॥ -८३९, ८४०-॥ इति विष्कम्भापमृत: (१) (सु०) मत्तस्खलिसं लक्षयति-मत्तल्लीति । यत्र मत्तल्लि, गण्डसूचि, लीनम् , अपविद्धमेतत्रितयं द्रुतम् , ततः तलसंस्फोटितम् , करिहस्तम् , कटीच्छिन्नमिति करणाष्टकं क्रमेण भवति, स मत्तस्खलितः ।। -८४१,८४२-॥ इति मत्तस्खलितः (२) (सु०) गतिमण्डलं लक्षयति-मण्डलेति । मण्डलस्वस्तिकम् , निवेशम् , उन्नतम् , उद्घट्टितम् , मत्तलि, आक्षिप्तम् , उरोमण्डलम् , कटीच्छिन्नमिति करणाष्टकं यत्र क्रमेण भवति ; स गतिमण्डलः ॥ -८४३, ८४४- ।। इति गतिमण्डल: (३) (सु०) अपविद्धं लक्षयति-- यत्र प्रथममपविद्धम् , तत: सूचीविद्धम् , ततः Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy