________________
सप्तमो नर्तनाध्यायः उद्वेष्टिते समं चार्या बद्धया वलयेत्त्रिकम् । ऊरूवृत्तं च करणमुरोमण्डलकं ततः ॥ ८४६ ॥ कटीछिन्नं पञ्चमं चेदपविद्धस्तदा भवेत् ।
___इत्यपविद्धः (1) निकुट्टकाख्यं करणं स्यानिकुञ्चितमश्चितम् ॥ ८४७ ।। उरूवृत्तं ततोऽप्यनिकुट्टकरणं ततः। भुजङ्गत्रासितं हस्तोद्वेष्टने भ्रमरं ततः ॥ ८४८ ॥ करिहस्तं कटीछिन्नं विष्कम्भे नवमं भवेत् ।
इति विष्कम्भः (५) उद्घट्टिते निकुटाख्यमुरोमण्डलकं ततः ॥ ८४९ ॥ नितम्बं करिहस्तं स्यात्कटीछिन्नं च पश्चमम् ।
___इत्युद्घट्टितः (६) करे उद्वेष्टिते, ततः बद्धाख्यया चार्या त्रिकवलनम् , तत ऊरूवृत्तम् , उरोमण्डलम् , कटीच्छिन्नं च कमात् क्रियते ; सोऽपविद्धः ॥ -८४५, ८४६-॥
इत्यपविद्धः (४) (सु०) विष्कम्भं लक्षयति-निकुटकेति । यत्र निकुट्टम, कुचितम् , अञ्चितम् , उरूवृत्तम्, अर्धनिकुट्टम् , भुजङ्गत्रासितम् , करोद्वेष्टनेन भ्रमरम् , करिहस्तम् कटीच्छिन्नमिति करणनवकं विष्कम्भं भवति ॥ -८४७, ८४८-॥
इति विष्कम्भः (५) (सु०) उद्घट्टितं लक्षयति-उद्घट्टित इति । निकुट्टम् , उरोमण्डलम्, नितम्बम् , करिहस्तम् , कटीच्छिन्नमिति करणपञ्चकम् उद्घट्टितो भवति ॥ ॥-८४९,८४९-॥
इत्युद्घट्टितः (६)
Scanned by Gitarth Ganga Research Institute