________________
२६४
संगीतरनाकरः अपक्रान्तं व्यंसितस्य केवलं करयोः क्रिया। करिहस्तं चार्धसूचि विक्षिप्ताख्यं कटीयुतम् ॥ ८३१॥ छिनमूरूवृत्तसंज्ञमाक्षिप्तं करिहस्तकम् । कटीछिन्नं च सप्लेति करणान्यपसर्पिते ॥ ८३२ ॥ सार्थानि द्विः कटीछिन्नकरिहस्तकृतेर्नव ।
इस्यपसर्पितः (१४) भ्रमरं नूपुराख्यं च भुजङ्गात्रासिताभिधम् ।। ८३३॥ दक्षिणाङ्गेनैव कृत्वा कुर्यादशौखरेचितम् । आक्षिप्तच्छिन्नकरणे भ्रमरव्यंसिते ततः ॥ ८३४ ।। उरोमण्डलसंज्ञं च नितम्ब करिहस्तकम् । फटीछिन्नं च करणैरेभिर्वादशभिः क्रमात् ।। ८३५ ॥ एकादशभिरभ्यासाद्गणना भ्रमरस्य तु । मत्ताक्रीडाभिधानः स्यादङ्गहारो हरप्रियः ।। ८३६ ।।
इति मत्ताकोड: (१५)
(सु०) अपसर्पितं लक्षयति-अपक्रान्तमिति । अपक्रान्तम , व्यंसितस्य हस्तक्रियामात्रम् , करिहस्तम् , अर्धसूचि, विक्षिप्तम् , कटिच्छिन्नम्, ऊरूवृत्तम् , आक्षिप्तम् , करिहस्तकम् , कटीच्छिन्नमिति करणसप्तकं यत्र क्रमाद् भवति ; सोऽपसर्पित: ॥ ८३१, ८३२- ॥
इत्यपसर्पितः (१४)
(सु०) मत्ताक्रीडितं लक्षयति-भ्रमरमिति । यत्र भ्रमरम् , नूपुरम् , भुजङ्गत्रासितं च दक्षिणानेन कृत्वा, ततो वैशाखरेचितम् , आक्षिप्तच्छिन्नम् , भ्रमरं च वामाझेन कृत्वा, तत उरोमण्डलम्, नितम्बम् , करिहस्तम् ,
Scanned by Gitarth Ganga Research Institute