SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः स्थिरहस्तोऽथ पर्यस्तः सूचीविद्धोऽपराजितः ।। ७९४ ।। वैशाखरेचितः पार्थस्वस्तिको भ्रमरोऽपरः । आक्षिप्तकः परिच्छिन्नो मदाद्विलसितस्ततः ।। ७९५ ।। आलीढाच्छुरितौ पार्थच्छेदसंज्ञोऽपसर्पितः । मत्ताक्रीडस्तथा विद्युभ्रान्तोऽमी षोडशोदिताः ॥ ७९६ ।। चतुरश्रेण मानेनाङ्गहारा मुनिसंमताः। विष्कम्भापमृतो मत्तस्खलितो गतिमण्डलः ॥ ७९७ ॥ अपविद्धश्च विष्कम्भोट्टिताक्षिप्तरेचिताः । रेचितोऽर्धनिकुट्टश्च वृश्चिकापमृतस्ततः ॥ ७९८ ।। अलातकः परावृत्ताः परिवृत्तादिरेचितः । उत्तकश्च संभ्रान्तसंज्ञः स्वस्तिकरेचितः ।। ७९९ ॥ षोडशेति व्यश्रमाना द्वात्रिंशदुभये मताः । करणवातसंदर्भानन्त्यात्तेपामनन्तता ॥ ८०० ॥ द्वात्रिंशत्ते तथाप्युक्ताः प्राधान्यविनियोगतः । शास्त्रम् , ४-३१)" इत्यस्मिन् श्लोके “वाशब्देन नियमः सूचितः" इति व्याख्यातमभिनवगुप्तादिभिः ॥ ७९२, ७९३- ॥ (क०) अथाङ्गहारानुद्दिशति-स्थिरहस्त इत्यादि पदाद्विलसित इति । मदविलसित इत्यर्थः । चतुरश्रेण मानेनेति । चतुरश्रश्वञ्चत्पुटः, तस्य मानं प्रमाणं समसंख्याकलात्मकं चतुरश्रमित्युच्यते । तेनेत्यर्थः । अतः स्थिरहस्तादीनां षोडशानामेकैकगुरुकलाप्रयोज्यत्वेन वक्ष्यमाणानां करणानां समसंख्यया चतुरश्रत्वमवगन्तव्यम् । ननु सूचीविद्धादिकेपु केषुचिदाहारेषु करणन्यूनताधिक्यस्य दृष्टत्वात्कथं करणानां समसंख्यात्वं कथं च Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy