________________
सप्तमो नर्तनाध्यायः करणाभ्यां मातृका स्यात्कलापः करणैत्रिभिः । चतुर्भिः खण्डको ज्ञेयः संघातः पञ्चभिर्मतः ।। ७९२ ॥ इति संघविशेषेण संज्ञाभेदान् परे जगुः । करणन्यूनताधिक्यं तेपां मेने मुनिः स्वयम् ॥ ७९३ ॥ द्वाभ्यां त्रिभिश्चतुर्भिर्वेत्येतद्वाशब्दसूचितम् ।
इति कथ्यन्ते । तेषां निरुक्तिद्वारा सामान्यलक्षणमाह-अङ्गानामिति । अङ्गानाम् ; शिर आदीनाम् , हार उचिते देशे सविलासं प्रापणम् ; मातृफोत्करसंपाद्यम् ; मातृकापूर्वो शिर आद्यङ्गप्रत्यङ्गपात्रसमुदायः, तस्य उत्करः समूहः, तेन संपाद्यो विधेय अङ्गहार उच्यते । अन्यथा निर्वक्ति-यद्वेति । अझैः कृत: हरस्य ईश्वस्य संबन्धी यो अङ्गहार इति ॥ -७८९-७९१ ॥
(क०) 'मातृकोत्करसंपाद्यम्', इत्यङ्गहारलक्षणे प्रसक्ताया मातृकाया लक्षणप्रसङ्गात्करणसंघातविशेषाणां संज्ञा दर्शयति-करणाभ्यामित्यादि । करणाभ्यामवयवभूताभ्याम् । मातृकेत्यवयविसंज्ञा वेदितव्या । तथा त्रिभिः करणैः अवयवैः कलापो नामावयवी, चतुभिः करणैः खण्डकं नाम रागावयवी, पञ्चभिः करणैः संघात इति । करणन्यूनताधिक्यमिति । अङ्गहारेषु करणानां न्यूनता चाधिक्यं च । कचिदुक्तेपु न्यूनता, कचिदुक्तेभ्य आधिक्य मिति । तेषामहाराणां तत्कुतोऽवगन्तव्यमित्याकाङ्क्षायामाह-वाशब्दमूचितमिति । द्वाभ्यां त्रिभिश्चतुर्भिरिति मातृकाविशेषणम् ॥ ७९२-७९३- ।।
___ (सु०) तस्य भेदानाह-करणाभ्यामिति । करणद्वयेन कृत अङ्गहारो मातृका; करणत्रयेण कलापः; करणचतुष्टयेन खण्डकः ; करणपञ्चकेन संघात इति करणविशेषाणां संज्ञाविविशेषान् आचार्या आहुः । भरतमुनिस्तु तेषां मातृकादीनां भेदानां करणेषु न्यूनत्वमाधिक्यत्वं च मेने । ननु कुत्र भरतेनैवमुक्तम् ? तत्राह-द्वाभ्यामिति । "द्वाभ्यां त्रिभिश्चतुर्भिर्वा (नाट्य
Scanned by Gitarth Ganga Research Institute