________________
२५४
संगीतरनाकरः यत्र शृङ्गारसंबन्धं गानं स्त्रीपुरुषाश्रयम् । देव्या कृतैरङ्गहारैललितैस्तत्प्रयोजयेत्" ।
(भावप्रकाशनम् , पृ० १९८) इत्यादिवचनवशादङ्गहारास्तत्र प्रयोक्तव्या इत्यर्थः । सम्यक्प्रयोगेदृष्टं फलं तावदीतश्रवणेन नृतदर्शनेन च जनित आनन्दः । अदृष्टं फलं तु देवताप्रीतिजनकत्वेनापूर्वसाध्यं लोकान्तरसुखम् ; तदुभयमप्यतैः सिध्यतीत्युक्तम् -दृष्टादृष्टफलानपीति ।
तथाचोक्तम् --- "एवं यः पूर्वरङ्गं तु विधिना संप्रयोजयेत् । नाशुभं प्राप्नुयादत्र पश्चात्स्वर्ग स गच्छति" इति ॥
(भावप्रकाशनम् , पृ० १९९) अङ्गानामिति । करचरणादीनाम् । उचिते देश इति । पूर्वोक्तेषु पार्थादि. त्रयोदशसु पाणिक्षेत्रादिषु यत्रोचितो देशस्तस्मिन्निति । तथा पादयोर्यस्यां चार्यो य उचितो देशस्तस्मिन्निति । एवं शिरःप्रभृतीनामप्युचितो देशो द्रष्टव्यः । तत्र हरणं हारो देशान्तरात्प्रापणमित्यर्थः । एतावत्येवाङ्ग. हारलक्षणेऽभिहिते लौकिकाङ्गक्रियाणामप्यङ्गहारत्वं प्रसज्येत । तद्वयवच्छेदार्थ सविलासकमित्युक्तम् । तथापि नृतकरणेप्वतिव्याप्तिर्भवतीति तत्परिहाराय मातृकोत्करसंपाद्यमित्युक्तम् । मातृका नाम करणद्वयनिप्पाद्या क्रिया। तथा वक्ष्यति-"करणाभ्यां मातृका स्यात्" इति । तासामुत्करः समूहः । तेन संपाद्यः । एवं विशिष्टमङ्गानां हरणमङ्गहार इति सनिरुक्तिकं लक्षणम् । निरुक्त्यन्तरं दर्शयति-यद्वेति । हरस्यायं हार इति प्रयोगविशेषणम् । सोऽपि प्रयोगोऽनिवर्तित इत्यारोऽहार इत्यर्थः ॥ -७८९-७९१ ॥
(सु०) एवं करणान्युक्त्वा , करणसंदर्भरूपान् अङ्गहारान् नाम्ना लक्षणेन च कथयति-पूर्वरङ्ग इति । पूर्वरने प्रयोक्तव्या दृष्टफला अङ्गहार
Scanned by Gitarth Ganga Research Institute