________________
सप्तमो नर्तनाध्यायः एकैकं करणं कार्य कलया गुरुरूपया ।। ८०१॥ सर्वेषामङ्गहाराणामित्याह करणाग्रणीः।
तेषामङ्गहाराणां चतुरश्रत्वमिति चेत् , उच्यते-तत्र करणस्थाने रेचकैः पूरणः कर्तव्यमिति संप्रदायो वेदितव्यः। अत एव ग्रन्थकारणापि''अङ्गहारा: सरेचकाः' इत्युदिशता रेचकानामङ्गहाराङ्गत्वं सूचितम् । तथा गतिमण्डलादिषु व्यश्राङ्गहारेषु रेचकैः करणानां विषमसंख्या संपादनीयेत्यवगन्तव्यम् ।। ७९४-८००- ॥ __(सु०) अङ्गहारान् विभजते-स्थिरहस्त इत्यादिना। स्थिरहस्तः, पर्यस्तकः, सूचीविद्धः, अपराजितः, वैशाखरेचितः, पार्श्वस्वस्तिकः, भ्रमरकः, आक्षिप्तः, परिच्छिन्नः, मदविलसितः, आलीटः, छुरितकः, पार्श्वच्छेदः, अपसर्पितः, मत्ताक्रीडः, विद्युभ्रान्त इति चतुरश्रमानेन षोडशाङ्गहाराः; विष्कम्भापसृतः, मत्तस्खलितः; गतिमण्डलः, अपविद्धः, विष्कम्भः, उद्घ हितः, आक्षिप्तरेचितः, रेचितः, अर्धनिकुट्टः, वृश्चिकापसृतः, अलातः, परावृत्तः, परिवृत्तरेचितः, उवृत्तः, संभ्रान्तः, स्वस्तिकरेचित इति त्र्यश्रमानेन षोडशाङ्गहाराः; सर्वे मिलिता द्वात्रिंशदङ्गहारा भवन्ति । करणसमूहानां रचनाविशेषाणामङ्गहारा अनेकविधाः, तथापि मुख्यत्वेन द्वात्रिंशदुक्ताः ॥ ॥ ७९४-८००. ॥
(क०) अङ्गहाराङ्गाणां करणानां प्रयोगे कालप्रमाणमाह-एकैकं करणं कार्य कलया गुरुरूपयेति । कलाशब्दस्य लघुपर्यायत्वेन प्रसिद्वत्वादत्र गुरुरूपयेति विशेषणम् ।। ८०१-८०१ ॥
(सु०) करणानां प्रयोगे कालप्रमाणमाह-एकैकमिति । सर्वेष्वङ्गहारेषु एकैकं करणं च गुरुरूपया कलया कार्यम् ॥ -८०१-८९१- ॥
प्रबन्धकारेणापि.
Scanned by Gitarth Ganga Research Institute