SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः २५१ परिवृत्य च तिर्यक्चेत्पादावुल्लोलयेत्तदा ॥ ७८३ ॥ समपादाञ्चितं प्राह सूरिः श्रीकरणाग्रणीः । इति समपादाचितम् (३४) भ्रामयित्वा दक्षिणाधिं तदीयतलपृष्ठतः ॥ ७८४ ॥ जङ्घामध्यमवष्टभ्य वामा रश्चितं पदम् । विधाय तिर्यक्स्कन्धाभ्यामधिष्ठाय विवृत्य च ॥ ७८५ ॥ पादावुल्लोलयेत्सोक्तं भ्रान्तपादाश्चितं तदा । इति भ्रान्तपादाचितम् (३५) उत्कटासनमास्थायाश्चितं कृत्वा सयुग्मतः ॥ ७८६ ॥ स्थित्वा भुवि व्योम्नि कृत्वाङ्गान्तराणि ततो भुवम् । अवष्टभ्य कराभ्यां चेद् भ्रान्त्वा भ्रान्त्वा च पूर्ववत् ।। ७८७॥ तिष्ठेमतिदिशं प्रोक्तं स्कन्धभ्रान्तं तदा बुधैः। ताख्यं करणं कृत्वा, स्कन्धप्रदेशेन भूमौ स्थितः सन् , परिवर्त्य तिर्यक्पार्श्वप्रदेशे यदा उल्लोलयेत्, तदा समपादाञ्चिताख्यं करणं भवति ॥७८३,७८३-॥ इति समपादाश्चितम् (३४) (मु०) भ्रान्तपादाचितं लक्षयति-भ्रामयित्वेति । दक्षिणचरणं भ्रामयित्वा, दक्षिणाङ्गुलितलपृष्ठेन वामचरणस्य जङ्घामवष्टभ्य, अश्चिताख्यं करणं विधाय, तत्तत्स्कन्धाभ्यां भूमिमवलम्ब्य विवृत्य यदा चरणौ उल्लोलयेत्। सदा भ्रान्तपादाञ्चिताख्यं करणं भवति ॥ -७८४, ७८५- ॥ इति भ्रान्तपादश्चितम् (३५) __ (सु०) स्कन्धभ्रान्तं लक्षयति-उत्कटेति । उत्कटासने स्थित्वा अश्चिताख्यं करणं कृत्वा, स्कन्धयुग्मेन भूमौ स्थित्वा, अङ्गान्तराणि आकाशे Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy