________________
२५२
संगीतरत्नाकर:
विद्यन्तेऽन्येऽपि भूयांसो भेदाः करणसंश्रयाः ।। ७८८ ॥ न ते श्रीशार्ङ्गिणा प्रोक्ता ग्रन्थप्रथिमभीरुणा | इति स्कन्धभ्रान्तम् (३६) इति षट् त्रिंशदुत्प्लुतिकरणानि ।
पूर्वरङ्गे प्रयोक्तव्यान् दृष्टादृष्टफलानपि ।। ७८९ ।। अङ्गहारान् प्रवक्ष्यामि नामतो लक्ष्मतस्तथा । अङ्गानामुचिते देशे हरणं सविलासकम् ।। ७९० ।। मातृकोत्करसंपाद्यमङ्गहारोऽभिधीयते ।
यद्वा हारो हरस्यायं प्रयोगोऽङ्गैरिति स्मृतः ॥ ७९१ ॥
विधाय, ततो हस्ताभ्यां भुवं धृत्वा भ्रमणानन्तरं दिग्भ्रमरीवत् दिक्षु चतुष्टये यदा तिष्ठेत् तदा स्कन्धभ्रान्ताख्यं करणं भवति । एवं करणसंश्रया अन्येऽपि भेदा बहवो विद्यन्ते । न ते ग्रन्थविस्तर भीरुणा शार्ङ्ग देवेनोक्ताः ॥ - ७८६-७८८- ॥ इति स्कन्धभ्रान्तम् (३६) इति षट्त्रिंशदुत्प्लुतिकरणानि ।
(क० ) अथ करणसमुदायरूपान् अङ्गहारान् लक्षयितुमादौ तेषां प्रयोगस्थलं फलं सनिर्वचनं स्वरूपं चाह -- पूर्वरङ्ग इत्यादि । पूर्वरङ्गो नाम नाटकादिषु रूपकेषु प्रथमं नाटकादिवस्तुसूचकत्वेन 'प्रत्याहारादिभिर्द्वाविंश
1
तत्र भावप्रकाशने पूर्वराजमुकम् ; तद्यथाप्रत्याहारोऽवतरणमारम्भानावणे अपि । वक्त्रपाणिस्ततस्तत्र भवेत्तु परिवहना । संघट्टना ततो मार्गासारितं च ततो भवेत । पटकं तनोत्थापनं परिवर्तनं ।
नान्दीप्ररोचना तत्र त्रिगतासारिते अपि । गीतं त्रा त्रिसाम स्याङ्गद्वारमतः परम् । एतान्यज्ञानि कथ्यन्ते पूर्वरङ्गस्य सूरिभि: । ( पृ० १९५ )
Scanned by Gitarth Ganga Research Institute