________________
२४७
सप्तमो नर्तनाध्यायः परिवर्तेत यत्राधः करस्पर्शनमूचिरे ।
इति करस्पर्शनम् (१९) उत्प्लुत्यान्यतमां सूची खे कृत्वा भजते क्षितौ ॥ ७७१ ।। यदोत्कटासनं चोर्ध्वस्थानमेणप्लुतं तदा ।
इत्येणप्लुतम् (२०) तिर्यगेकेन पादेन समुत्प्लुत्य निपत्य चेत् ॥ ७७२ ।। तिष्ठे व्यघ्रिणान्येन स्यात्तिर्यकरणं तदा ।
___इति तिर्यकरणम् (२१) समपादात्परं तिर्युगुत्प्लुतौ तिर्यगश्चितम् ॥ ७७३ ॥
___इति तिर्यगश्चितम् (२२) हस्तेन भूमिमाश्रित्य, अध: परिवर्तने कृते सति ; करस्पर्शनाख्यं करणं भवति ॥-७७०, ७७०-॥
इति करस्पर्शनम् (१९) (सु०) एणप्लुतं लक्षयति-उत्प्लुत्येति । यत्र उत्प्लवनं विधाय, यां कांचित् सूर्ची गगने कृत्वा, यदि भूमौ ऊर्ध्वस्थानमुत्कटासनं क्रियते; तत् एणप्लुताख्यं करणं भवति ॥ ७७१, ७७१- ॥
___ इत्येणप्लुतम् (२०) (सु०) तिर्यकरणं लक्षयति-तिर्यगिति । एकेन पादेन तिर्यगुत्प्लुत्य, अन्येन चरणेन भूमौ यदि तिष्ठति, तदा तिर्यक्करणम् ॥ -७७२, ७७२- ॥
इति तिर्थक्करणम् (२१) (सु०) तिर्यगश्चितं लक्षयति-समपादेति । समपादेन स्थित्वा, तिर्यगुत्प्लवने, तिर्यगञ्चिताख्यं करणं भवति ॥ -७७३ ॥
इति तिर्यगवितम् (२२)
Scanned by Gitarth Ganga Research Institute