________________
२४६
संगीतरनाकरः समपादस्थितो यत्र संस्पृश्य शिरसा भुवम् ॥ ७६७ ॥ परावृत्तस्तत्कपालचूर्णनं वर्णितं बुधैः ।
इति कपालचूर्णनम् (१६) कपालचूर्णनं कृत्वोत्तानं वक्षश्चलासनम् ॥ ७६८ ॥ यत्रोक्त नतपृष्ठं तद्वकोलमपरैरिदम् ।
इति नतपृष्ठम् (१७) उत्प्लुत्य मध्यमावर्त्य वामपार्श्वन मत्स्यवत् ।। ७६९ ॥ परिवर्तेत चेन्मत्स्यकरणं वर्णितं तदा ।
इति मत्स्यकरणम् (१८) अलगं करणं कृत्वा हस्तेनाश्रित्य च क्षितिम् ॥ ७७० ॥
(सु०) कपालचूर्ण लक्षयति-समपादेति । यत्र समाभ्यां पादाभ्यां स्थितं सत् शिरसा भूमिं स्पृशन् परावृत्तो भवति, तत् कपालचूर्णाख्यं करणं भवति ॥ -७६७, ७६७- ॥
इति कपालचूर्गणम् (१६) (सु०) नतपृष्ठं लक्षयति-कपालेति । यत्र कपालचूर्णनं कृत्वा वक्षसि चलासनं क्रियते, तत् नतपृष्ठाख्यं करणं भवति । तदेव वङ्कोलमित्युच्यते ॥ ॥ -७६८, ७६८-॥
इति नतपृष्ठम् (१७) (सु०) मत्स्यपृष्ठं लक्षयति-उत्प्लुत्येति । यत्र उत्प्लुत्य मध्यमावर्त्य मत्स्यवत् वामपार्श्वन परिवर्तते, तत् मत्स्यकरणं भवति ॥ -७६९, ७६९- ॥
इति मत्स्यकरणम् (१०) (सु०) करस्पर्शनं लक्षयति-अलगमिति । यत्र अलगं करणं कृत्वा,
Scanned by Gitarth Ganga Research Institute