________________
सप्तमो नर्तनाध्यायः एकाध्रिजा त्वेकपादलोहडी संमता सताम् ।
इत्येकपादलोहडी, एकपादठितं वा (१२) वैष्णवे स्थानके स्थित्वा पतेत्पार्थेन चेद्भुवि ॥ ७६५ ॥ करणं दर्पसरणं तदाह करणाधिपः ।
इति दर्पसरणम् (१३) तदेव जलशय्याख्यमासने जलशायिवत् ।। ७६६ ॥
इति जलशयनम् (१४) नागबन्धं तदेव स्यानागवन्धवदासने ।
इति नागबन्धम् (१५)
(सु०) एकपादलोहडी लक्षयति–एकेति । एकचरणोद्भवा लोहडी एकपादलोहडी भवति ॥ ७६४.॥
इत्येकपादालोहडी, एकपादलुठितं वा (१२) (सु०) दर्पसरणं लक्षयति-वैष्णव इति । यत्र वैष्णवाख्ये स्थानके स्थित्वा, यदि भुवि पार्श्वन पतेत् ; तत् दर्पसरणाख्यं करणं भवति ॥ ।। -७६५, ७६५- ॥
___इति दर्पसरणम् (१३) (सु०) जलशयनं लक्षयति-तदेवेति । तदेव दर्पसरणमेव यत्र जलशायिवत् आसने क्रियमाणे सति ; जलशयनाख्यं करणं भवति ॥ -७६६ ॥
इति जलशयनम् (१४) (सु०) नागबन्धं लक्षयति-नागबन्धमिति । तदेव दर्पसरणमेव यत्र नागबन्धासने क्रियमाणे सति ; नागबन्धाख्यं करणं भवति ॥ ७६६ ॥
इति नागबन्धम् (१५)
Scanned by Gitarth Ganga Research Institute