SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ संगीतरनाकरः ऊर्ध्वालगं तत्पतित्वा समा रूख़संस्थितौ । इत्यूलिगम् (८) कृतालगो निपत्योामुत्तानोरःस्थलस्थितः ॥ ७६२ ।। पृष्ठतः श्रोणिसंस्पर्शि शिरः स्यादन्तरालगे । इत्यन्तरालगम् (९) समपादस्थितो यत्र विवर्त्य त्रिकमुत्प्लुतः ॥ ७६३ ॥ तिर्यक्पाते लोहडी तल्लुठितं चोच्यते बुधैः । इति लोहडी, लठितं वा (१०) वस्तिकाघ्रिकृता सैव कर्तरीलोहडी मता ॥ ७६४ ॥ इति कर्तरीलोहडी, कर्तरी ठितं वा (११) (सु०) ऊर्ध्वालगं लक्षयति-ऊोलगमिति । यत्र पतित्वा समचरणस्य ऊर्ध्वसंस्थितिः क्रियते, तदा ऊर्ध्वालगाख्यं करणं भवति ॥ ७६१-॥ ___ इत्यूलिगम् (८) (सु०) अन्तरालगं लक्षयति-कृतालग इति । कृतम् अलगं येन, तथाविधम् उा पतित्वा उत्तानम् उरःस्थलं यस्य, तथाविधः स्थितः पृष्ठतः श्रोणी स्पृशति शिरो यस्य, तथाविधो यदि भवेत् ; तदा अन्तरालगाख्यं करणं भवति ॥ -७६२, ७६२-॥ इत्यन्तरालगम् (९) ___ (सु०) लोहडी लक्षयति-समपादेति । समपादस्थितः, समाभ्यां पादाभ्यां स्थितः सन् , त्रिकं विवर्त्य उत्प्लुत्य यत्र तिर्यक्पतेत् सा लोहडी; तदेव बुधैः लुठितमित्युच्यते ॥ -७६३, ७६३-॥ ___ इति लोहडी, लठितं वा (१०) (सु०) कर्तरीलोहडी लक्षयति-स्वस्तिकेति । यत्र स्वस्तिकचरणकल्पिता लोहडयेव कर्तरीलोहडी भवति || -७६४ ॥ इति कर्तरीलोहटी, कर्तरीलठितं वा (११) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy