SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २४१ सप्तमो नर्तनाध्यायः २४१ लोहडी कर्तरीलोहडयेकपादादिलोहडी । ततः स्यादर्पसरणं शयनं जलपूर्वकम् ॥ ७५२ ॥ नागबन्धं कपालायं चूर्णनं नतपृष्ठकम् । स्यान्मत्स्यकरणं चाथ करस्पर्शनसंज्ञकम् ॥ ७५३ ॥ एणप्लुतं ततस्तियकरणं तिर्यगश्चितम् । तिर्यक्स्वस्तिकसंज्ञं च सूच्यन्तमथ कीर्तितम् ।। ७५४ ॥ बाह्यान्तश्छत्रतिरिपालगचक्रेऽश्चितादिमाः । सप्त भ्रमर्यो भ्रमरी शिरःपूर्वा दिगादिमा ॥ ७५५ ॥ समपादाश्चितं भ्रान्तपादाश्चितमतः परम् । स्कन्धभ्रान्तं च षट्त्रिंशदिति सोढलनन्दनः ॥ ७५६ ॥ संक्षिप्योत्प्लुतिपूर्वाणि करणानि समादिशत् । तानुद्दिशति-अश्चितमित्यादि । कूर्मोर्चान्तरपूर्वालगानीति । कूर्मालगमूर्ध्वालगमन्तरालगमिति त्रीणि । कर्तरीलोहडीत्येकं पदम् । जलपूर्वकं शयनं जलशयनमित्येकम् । कपालाद्यं चूर्णनम् । सूच्यन्तमित्युद्देशे स्वतन्त्रमेकम् । शिरःपूर्वा भ्रमरी शिरोभ्रमरी। दिगादिमा भ्रमरीत्यनुषङ्गः, दिग्भ्रमरीति ॥ -७४९-७५६ ॥ ___ (सु०) एवं नृत्यकरणान्युक्त्वा, उत्प्लुतिकरणानि वक्तुं प्रतिजानीतेअथेति । हरप्रिय इति साभिप्रयायं विशेषणम् । ईश्वरो हि ताण्डवे उत्प्लुतिपूर्वकैः करणैः नृत्यति । ततः तत्प्रीतये तानि कथयतीत्यर्थः । तानि षट्त्रिंशद्विधानि । यथा-अञ्चितम् , एकचरणाञ्चितम् , भैरवाञ्चितम् , दण्ड-, प्रणामाञ्चितम् , कर्तर्यञ्चितम् , अलगम्, कूर्मालगम् , ऊर्ध्वालगम्, अन्तरालगम्, लोहडी, कर्तरीलोहडी, एकपादलोहडी, दर्पसरणम् , जलशयनम् , नागबन्धम्, कपालचूर्णनम् , नतपृष्ठम् , मत्स्यकरणम् , करस्पर्शनम् , 31 Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy