SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २४० संगीतरनाकरः कर्तव्यः करणे प्रायो वामो वक्षःस्थितः करः ।। ७४८ ॥ पाणिस्तु दक्षिणस्तत्र स्यात्तत्तत्करणानुगः। इत्यष्टोत्तरशतं करणानि । अथ देश्यनुसारेण देशे देशे लसद्यशाः ॥ ७४९ ॥ वदत्युत्प्लुतिपूर्वाणि करणानि हरमियः । अश्चितं चैकचरणाश्चितं स्याटैरवाश्चितम् ॥ ७५० ॥ दण्डप्रणामाश्चितं च कर्तर्यश्चितकं ततः । अलगं त्रीणि कूर्मोर्ध्वान्तरपूर्वालगानि च ॥ ७५१ ॥ तत: उन्नतसंनती च त्रिपताकहस्तौ भवतः ; शिरश्चैवमेव भवति; तदा गङ्गावतरणाख्यं करणं भवति । तच्च गङ्गावतारे प्रयोज्यम् ॥ ७४७, ७४७- ॥ इति गङ्गावतरणम् (१०८) (क०) सकलकरणसाधारणीमितिकर्तव्यतामाह-कर्तव्यः करणे प्राय इति । प्राय इत्यनेन यत्र लक्षणे वामहस्तस्य पृथक्रिया नाभिहिता, तत्रेत्यवगन्तव्यम् ॥ -७४८, ४४८- ॥ इत्यष्टोत्तरशतं करणानि । (सु०) एवं करणानां लक्षणमुक्त्वा सर्वलक्षणसाधारणं करणसाधारणं करविन्यासमाह-कर्तव्य इति । करणे कर्तव्ये सति, वाम: करः प्राय: बाहुल्येन वक्षसि स्थिते, दक्षिणः पाणिस्तु तत्तत्करणानुगतत्वमुपगच्छतीति ॥ ॥ ७४८, ७४८-॥ इत्यष्टोत्तरशतं करणानि । (क०) अथोप्लुतिकरणानि लक्षयितुमाह-अथ देश्यनुसारेणेति । एतेषां भरताद्यनुक्तत्वाच्छुद्धकरणवल्लक्षणनियमो नाद्रियत इत्यर्थः । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy