________________
२३९
सप्तमो नर्तनाध्यायः अलातां विदधच्चारी हस्तौ कुर्वीत रेचितौ । व्यात्या कुश्चितौ कृत्वालपद्मौ बाहुशीर्षयोः ॥ ७४४ ॥ न्यस्येते यत्र तद्धीरा वृषभक्रीडितं जगुः ।
___इति वृषभक्रीडितम् (१०६) हस्तौ चेद्रेचितौ स्यातां शिरस्तु परिवाहितम् ॥ ७४५ ॥ स्वस्तिकापस्तौ पादौ तदा नागापसर्पितम् । माहुः प्रयोगमेतस्य सूरयस्तरुणे मदे ।। ७४६ ॥
इति नागापसर्पितम् (१०७) अ रुक्षेपनिक्षेपावनु प्रोन्नतिसंनती । मजेतां त्रिपताको चेदेवमेव शिरस्तदा ।। ७४७ ॥ गङ्गावतरणं गङ्गावतारे शाङ्गिणोदितम् ।
इति गङ्गावतरणम् (१.८)
(सु०) वृषभक्रीडितं लक्षयति-अलातामिति । यत्र अलाताख्या चारीकरणसमये हस्तौ रेचितौ विदध्यात् । ततो व्यावर्तनं कृत्वा कुञ्चितो अलपद्माख्यौ करौ क्रमेण बाहशीर्षयोः भवक्षिप्येते; तदा वृषभक्रीडितास्यं करणं भवति ॥ ७४४, ७४४-॥
इति वृषकीडितम् (१०६) (सु०) नागापसर्पितं लक्षयति-हस्ताविति । यत्र हस्तौ रेचितौ भवतः ; शिरस्तु परिवाहितं भवति ; पादौ स्वस्तिकापसृतौ भवतः, तत् नागापसर्पिताख्यं करणं भवति । तच्च तरुणे मदे प्रयोज्यम् ॥ ७४५, ७४६ ॥
इति नागापसर्पितम् (१०७) (सु०) गङ्गावतरणं लक्षयति-अप्रेति । यत्र चरणस्य उत्क्षेपविक्षेपो,
Scanned by Gitarth Ganga Research Institute