________________
२३८
संगीतरनाकरः हस्तौ यत्रोद्घट्टितं तदात्ता प्रमोदकम् ।। ७४० ॥
इत्युद्घट्टितम् (१०३) शकटास्या भवेचारी प्रसार्येताघ्रिणा सह । एको हस्तो द्वितीयस्तु वक्षस्थः खटकामुखः ॥ ७४१ ॥ पत्र तच्छकटास्यं स्यात्तादृशे बालखेलने ।
इति शकटास्यम् (१०४) सहोरूवृत्तया चार्या यत्र व्यावर्तनान्वितौ ॥ ७४२ ॥ अरालखटकौ हस्तौ निदध्यादृरुपृष्ठयोः । ऊरूद्वृत्तं तदीया॑यां प्रार्थनाप्रेमकोपयोः ॥ ७४३ ॥
इत्यूरूद्धृत्तम् (१.५) पार्श्व च संनतम् । हस्तौ तालिकोद्यतौ भवतः, तत् आवृत्ताङ्गमुद्घट्टिताख्यं करणं भवति । तच्च प्रमोदे प्रयोज्यम् ॥ ७४०॥
___ इत्युद्घट्टितम् (१०३) __ (सु०) शकटास्यं लक्षयति-शकटास्येति । यत्र शकटास्या चारी, चरणेन सह एको हस्त: प्रसारित:; द्वितीयस्तु खटकामुखीभूय वक्षःस्थो भवति; तत् शकटास्याख्यं करणं भवति । तच तादृशे बालखेलने कार्यम् ।। ॥ ७४१, ७४१-॥
इति शकटास्यम् (१०४) (सु०) ऊरूवृत्तं लक्षयति-सहेति । यत्र उरूद्वृत्तया चार्या सह, ध्यावर्तनेनोपलक्षितौ अरालखटकामुखौ हस्तौ ऊरुपृष्ठयोः निधीयेते; तत् अरूद्वृत्ताख्यं करणं भवति । तच्च ईर्ष्यायाम् , प्रार्थनायाम् , प्रेम्णि, कोपे च प्रयोज्यम् ॥ ·७४२, ७४३ ॥
इत्यूरूदत्तम् (१.५)
Scanned by Gitarth Ganga Research Institute