________________
सप्तमो नर्तनाध्यायः
भाविद्धां विदधच्चारीं व्यावृत्तपरिवर्तितम् । अलपद्मकरं न्यस्येदूरुपृष्ठे यदा तदा ।। ७३६ ।। संभ्रान्तं तत्प्रयोक्तव्यं ससंभ्रमपरिक्रमे ।
इति संभ्रान्तम् (१०१ )
अपेत्योपमृजेद्वामं दक्षिणो नृत्तहस्तकः ।। ७३७ ।। सूचीमुखो निकुथेत साधिर्वामकरो हृदि । तद्वदङ्गान्तरं कृत्वा सूचीपादश्च दक्षिणः ।। ७३८ ॥ हस्तोऽसावलपद्मः स्याद्वामहस्तस्तु पूर्ववत् । एवं पुनः पुनर्यत्र विष्कम्भं तद्वभाषिरे ।। ७३९ ।। इति विष्कम्भम् (१०२)
उद्घट्टितोऽङ्घ्रिः पार्श्वे तत्संनतं तालिकोयतौ ।
२३७
"
(सु० ) संभ्रान्तं लक्षयति - आविद्धामिति । यत्र आविद्वाख्यां चारी विधाय, व्यावृत्तपरिवर्तनानन्तरम् अलपद्माख्यं करमूरुपृष्ठे यदा क्षिपेत् तदा संभ्रान्ताख्यं करणं भवति । तच्च ससंभ्रमपरिक्रमे प्रयोज्यम् ॥७३६, ७३६-॥ इति संभ्रान्तम् (१०१ )
(सु० ) विष्कम्भं लक्षयति — अपेत्येति । यत्र वाममपेत्य दक्षिणः सूचीमुखात् नृत्तहस्त उपमृज्य, वामहस्तसमीपं गच्छेत्, दक्षिणो निकुट्ठितो भवति, वामहस्तश्च हृदये स्थाप्यः । एवमङ्गान्तरेऽपि कृत्वा, दक्षिणः पादः सूची, दक्षिणो हस्त अलपद्म:, वामस्तु पूर्ववत्; एवं पुन: पुनरावृत्तौ विष्कम्भाख्यं करणं भवति ॥ - ७३७-७३९ ॥
इति विष्कम्भम् (१०२)
(सु० ) उद्घट्टितं लक्षयति — उद्घट्टित इति । यत्र उद्वद्वितः चरणः,
Scanned by Gitarth Ganga Research Institute