________________
२१६
संगीतरत्नाकर:
कुञ्चितः प्रसरत्यङ्घ्रिरग्रे यत्रोद्गमोन्मुखः ।
करौ च रेचितौ विष्णुक्रान्तं तत्क्रमणे हरेः ।। ७३२ ॥ इति विष्णुकान्तम् (९८)
रेचितः पाणिरेकः स्याद्वक्षस्यन्योऽलपल्लवः । लोलितं शीर्षमुभयोर्विश्रान्तं पार्श्वयोरपि ।। ७३३ ।। वैष्णवं स्थानकं यत्र तदाहुललितं बुधाः । इति ललितम् (९९)
स्वस्तिकापतौ पादौ क्रमेण परिवाहितम् || ७३४ | शिरो डोलौ यदा हस्तौ मदस्खातकं तदा । एतन्मध्यमदे योज्यं भाषते भववल्लभः ।। ७३५ ।। इति मदस्खलितम् (१००)
(सु०) विष्णुकान्तं लक्षयति - कुश्चित इति । यत्र उद्गमनाय उन्मुखः चरणः अग्रे कुञ्चितः प्रसरति, करौ च रेचितौ । तत् विष्णुक्रान्ताख्यं करणं भवति । तच्च तत्क्रमणे कार्यम् ॥ ७३२ ॥
इति विष्णुकान्तम् (९८ )
(सु० ) लोलितं लक्षयति-- रेचित इति । यत्र एको हस्तो वक्षसि रेचित:, अन्य अलपल्लवः शीर्ष पार्श्वद्वये लोलितं विश्रान्तं च, ततो वैष्णवस्थानकं च भवति । तत् लोलिताख्यं करणं भवति ॥ ७३३, ७३३ ॥ इति लोलितम् (९९)
(सु० ) मदस्खलितं लक्षयति - स्वस्तिकेति । यत्र पादौ क्रमेण स्वस्तिकापसृतौ; शिरश्च परिवाहितं भवति ; यदा हस्तौ च डोलौ भवतः । तत्र मदस्खलिताख्यं करणं भवति । तच्च मध्यमदे कार्यम् ॥ - ७३४, ७३९५ ॥ इति मदस्खलितम् (१००)
Scanned by Gitarth Ganga Research Institute