SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २२४ संगीतरत्नाकरः विद्युद्भ्रान्तादण्डपादे क्रमाच्चायौं विधाय चेत् || ६८६ ॥ उद्वेष्टितापवेष्टाभ्यामेकमार्गगतौ करौ । रेचयन्नग्रतः पृष्ठे पार्श्वयोर्विक्षिपेत्तदा ॥ ६८७ ॥ विक्षिप्तमभिनेतव्यस्तेनोद्धतपरिक्रमः । इति विक्षिप्तम् (६६) करं चरणमाक्षिप्य यत्र त्रिकविवर्तनम् || ६८८ ।। करोऽपरो रेचितश्च तद्वदन्ति विवर्तितम् । इति विवर्तितम् (६७) sोलापादा यदा चारी करिहस्तोऽस्य कर्णगः || ६८९ ॥ क्रियाविष्टः करोऽन्वर्थे गजविक्रीडितं तदा । इति गजविक्रीडितम् (६८) (सु० ) विक्षिप्तं लक्षयति - विद्युदिति । विद्युद्भ्रान्ताख्यां दण्डपादाख्यां च चारीद्वयं कृत्वा, उद्वेष्टितापवेष्टिताभ्यां च हस्तौ एकमार्गवर्तिनौ कुञ्चितौ कुर्वन् अग्रे पृष्ठे पार्श्वद्वये च यदा विक्षिप्येते, तदा विक्षिप्ताख्यं करणं भवति । तच्च उद्धतपरिक्रमे प्रयोज्यम् ॥ - ६८६, ६८७- ॥ इति विक्षिप्तम् (६६) (सु० ) विवर्तितं लक्षयति - करमिति । यत्र करं चरणं चाक्षिप्य त्रिकं विवर्त्यते, अपरो हस्तः रेचितो भवति, तत्र विवर्तिताख्यं करणं भवति ॥ - ६८८, ६८८- ॥ इति विवर्तितम् (६७) (सु० ) गजविक्रीडितं लक्षयति — डोलेति । यत्र डोला पादाख्यां चारों कृत्वा, करिहस्तः करः कर्णगतः सन् व्यापराविष्टो भवति । तदा अन्वर्थनामकं गजविक्रीडिताख्यं करणं भवति ॥ - ६८९, ६८९-॥ इति गजविक्रीडितम् (६८) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy